________________
चैतदस्ति, अतस्तपोनियमादिगुणोत्सर्पणायैवायमुपदेशो न गृद्धयेति भाव इति गाथार्थः ॥ ४३ ॥ तस्माद्यदिह पर्यवसितं तदाहतम्हा विणा सम्म, नाणीणमुत्रग्गहं कुणतेणं । भवजलहिजाणवतं, पवत्तियं होइ तित्थंपि ॥ ४४ ॥
व्याख्या--- 1- यस्मादनन्तरोक्तन्यायेनाहाराद्यभावे तीर्थमुच्छिद्यते, तस्मात्सम्यग्विधिना ज्ञानिनामाहारादिभिरुपग्रहं कुर्वता प्राणिना अवजलपा वीर्थमिति भवतीति गाथार्थः ॥ ४४ ॥
तदेवमाहारादिना दानप्रवृत्ति व्यवस्थाप्य तदानविध्यादि प्रतिपादनार्थ द्वारगाथामाह - कह दायगेण एवं दार्यव्वं ? केसु वा विपत्सु ? । दाणस्स दायगाणं, अदायगाणं च गुणदोसा ॥४५॥ व्याख्या – कथं दायकेनैतदातव्यमिति वाच्यम्, तथा केषु पात्रेषु तद्दातव्यमित्यपि भणनीयम्, तथा दानस्य दायकानां ये गुणाः स्युरदायकानां च ये दोषास्सम्भवन्ति ते च वक्तव्या इति गाथार्थ: ।। ४५ ।। तत्राद्यद्वारमधिकृत्याह
आसंसाए विरहिओ, सद्धारोमंचकंचुइतो । कम्मक्खयहेउं चिय, दिजा दाणं सुपतेसु ॥ ४६ ॥ व्याख्या----आशंसया इह परभवगतऋद्ध्यादिप्रार्थनरूपया विरहितः श्रद्धया आहारादिदानोत्साहलक्षणया, रोमाश्च एक कञ्चुकः, स जातोऽस्य स रोमाञ्चकञ्चुकितः । कर्म्मक्षयहेतोरेव दद्यात् दानं दायक इत्येकं द्वारं । केषु तदातव्यमिति द्वितीयमाह-शोभनपत्रेष्विति गाथार्थः ॥ ४६ ॥ तान्येव सुपात्राप्याह
आरंभनियत्ताणं, अकिणताणं अकारविंताणं । धम्मट्ठा दायव्वं, गिहीहिं धरने कयमणाणं ॥ ४७ ॥