________________
श्रीसागरचन्द्रः । असुरोऽपि जातसंवेगः सम्यक्त्वं प्रतिपद्य गतः क्रमान्मोक्षं यास्यति । श्रीअमृतचन्द्रप्रभृतिसाधुसाध्वीवर्गे केनापि सुरलोकः केनापि सिद्धिसुखं प्राप्तमिति श्रिसागरचन्द्रचरितं समाप्तम् । तदेवं सागरचन्द्रस्येवान्येषामपि ज्ञानं व्यसनेष्वा श्वासकं शिवसुखकारणं च भवतीति भाव इति गाथार्थः ॥ ३८ ॥ पुनर्भवन्तरेण तस्यैव गुणमाह-
पावाओ विणियत्ती, पवत्तणा तह य कुसलपत्रखम्मि। विणयस्स य पडिवन्ती, तिन्नि त्रि नाणे समप्र्पति ॥ ३९ ॥
व्याख्या -- पापाद्विनिवृत्तिः, तथा प्रवर्त्तना कुशलपक्षे- धर्ममार्ग, विनयस्य च प्रतिपत्ति-राश्रयणं, एते त्रयोऽपि गुणा ज्ञाने एव सति 'समाप्यन्ते' समर्थ्यन्ते - परिपूर्णा भवन्ति, तदभावे तु केचित् कचित्कियन्तोऽपि कथञ्चिद्भवन्ति, तथापि तेऽसम्पूर्णत्वाद्विडम्ब raafrica इति गाथार्थः || ३९ || ज्ञानगुणानामनन्तत्वात्सामस्त्येन भणनासामर्थ्य मुपदर्शयन्नाह - गंगाए वालुअंजो, मिणिज उलिंचि [उं जो ] ऊण (?) समत्थो । हत्थउडेहिं समुदं, सो नाणगुणे भणिजा हि ॥ ४० ॥ surer - यो गङ्गाया वालुका मिनुयात्, समुद्रं च हस्तपुटैरुल्लञ्चितुं यः समर्थः, स एव ज्ञानगुणान् सर्वानपि भणेत्, नापरः । गङ्गाबालुका संख्यानादिवत्समस्तज्ञानगुणभणनमतिशयज्ञानिनाऽपि कर्तुमशक्यमिति भाव इति गाथार्थः ॥ ४० ॥
इति जिनपतिवाचा ज्ञानमाहात्म्यमुचे- जगति जनितचित्रं सर्वभव्याः । विभाग्य । यदि हृदि शिवसौख्येष्वस्ति काङ्क्षा कुतश्चित्तदति सकलयनाज्ज्ञान मे चार्जयध्वम् ॥ १ ॥ इति पुष्पमालाविवरणे (द्वितीयं) ज्ञानद्वारम् २ |