________________
द्र पुनरसौ सागरचन्द्र इति चेन् ? उच्यते--
_ इह श्रीभरते मलयपुरे अमृतचन्द्रराज्ञश्चन्द्रकला[रानी] कुक्षिशुक्तिमौक्तिकं सागरचन्द्रः कुमारः, सोऽन्यदा कस्यापि करात् पञ्चशत्या मदीनाररिमा गाथा जग्राह, यथा-"अप्पत्थियं चिय जहा, एइ दुहं तह सुहं पिजीवाणं। ता मुत्तुं सम्मोहं, धम्मे चिय कुणाह
पडियधं ॥ १ ॥” इति । स कुमारोऽन्यदा क्रीडावने गतः, केनाप्यपहता, स्वं समुद्रे पतितमद्राक्षीत् । ततश्चतः कल्लोलेरितो मत्स्यपुछैराहन्यमानः काष्ठखण्डमवाप्य नवमदिनेऽमरद्वीपमवाप्य नालीकरनीराभ्यङ्गारिकमपि जातस्वास्थ्यः फलवृत्ति कल्पयन् गाथार्थस्मरपोन सदाय मातापितवियोगवनवासादिदुखमसदिय गणयंस्तत्र काप्यरण्योद्देशे दिव्याकृतिमेकां कन्यां 'भवान्तरेऽपि सागरचन्द्रो भर्ता भूया'दिति श्रावणां कृत्वा आम्रशाखाऽवलम्बितपाशबद्धकण्ठा म कामां पाश छियाऽरक्षत् । अत्रान्तरे कोऽपि विद्याधरस्समायातः, स तं कन्यास्वरूपमपृच्छत् , कथितं च कुमारेण यथा ज्ञातं तत् । ततः स पाह-भो ! महात्मंस्त्वयाऽस्माकं महोपकारः कृतः कन्यां रक्षता । ततः कुमारानुयुक्तः खेचरः कन्यास्वरूपमाह-यथाऽस्मिन्नमरद्वीपेऽमरपुरे भुवनभानू राजा, चन्द्रवदना प्रिया, कमलमाला पुत्री कलाकुशला । सा च सागरचन्द्रगुणान् श्रुत्वा तत्पाणिग्रहे कृतप्रतिज्ञा, ततस्तत्पिता यावत्तत्सम्बन्धं करोति तावत्सुसेन विद्याधरेण तद्रूपमोहितेन साऽपहृता, अत्र प्रदेशे स्थितेन कन्यामातुलेन अमिततेजसा सा विलपन्ती दृष्टा, तस्मादाच्छिद्य चात्र मुक्ता, युद्धं च कृत्वा
माला, स चाहमेतस्सा मातुलः। अत्रान्तरे कथमपि संग्राम ज्ञात्वामिततेजसो माता विद्युल्लता शशिवेगमुख्या भ्रातरश्च ससैन्यास्समायाताः, कता सर्वैरन्योन्यचिता प्रतिपत्तिः। अथ विद्यालता सागरचन्द्रं दृष्टा सानन्दं प्राह
"क: कल्पपादपो रत्र-निधिः को वा सुधारसः । अनन्त फलदो लब्धो, योगः सत्पुरुषैर्यदि ॥१॥"