________________
दर्पयति-हर्ष नयति दृष्टं सत्सर्वलोकानिति निरुत्या सुन्दरं, प्रकृष्ट सुन्दर-सुन्दरतरं । 'लष्टतर मित्यनेन सामान्यशोभनतरं विवक्षितं, | सुन्दरतरं तु यथोक्तखरूपमित्यतोऽस्य भेदः । ततः सुन्दरतरमपि ज्ञानादन्यत्कि?, न किञ्चिदित्यर्थः। कथमिदं ज्ञायते ? इत्याह| यतश्चन्द्रमिव बहुश्रुतमुख सर्वे लोका अन्तःप्रसर्पत्प्रचुरबहुमाननिभृतचेतसः प्रस्फारित दृशः प्रलोकयन्ति, ततो लोके पुरुषत्वादिधर्मसाम्ये|ऽपि शेषपदार्थेभ्यः स्वाधारे प्रकर्षवद्गौरवाधानकारणत्वाज्ञानमेव लष्टतरादिस्वरूपं, नान्यदिति । अथवेत्थं व्याख्या-चन्द्रमिव सर्व| लोका बहुश्रुतमुखं प्रलोकयन्ति, किमध्यवस्यन्तः ? इत्याह-किमेतस्मादहश्रुतमुखालटतरमाश्चर्यतरं वा सन्दरतरं वा ? इत्येवं योजना
कार्येति गाथार्थः ।। ३४ ।। अथ प्रकृष्टकर्मनिर्जराकारणं ज्ञानमेव, नान्यदिति दर्शयन्नाह| छऽहमदसमदुवा-लसेहिं अबहुस्सुअस्स जा सोही । एत्तो उ अणेगगुणा, सोही जिमियस्स नाणिस्स ॥३५॥
व्याख्या-'षष्ठमिन्युपवासद्वयस्य सामयिकी संज्ञा, 'अष्टम'मुवासत्रयस्य, 'दशम सुपवासचतुष्टयस्य, 'द्वादशम भूपवासपञ्चकस्य । 18 इदं च पक्षमासक्षपणादेरुपलक्षणं । ततश्चतैः षष्ठोष्टमादिभिः क्रियमाणैरबहुश्रुतस्य-अगीतार्थस्य या शुद्धिः-कर्ममलापगमरूपा सम्पद्यते,
| एतस्याः शुद्धस्सकाशात्तु अनेकZण्यते इत्यनेकगुणा शुद्धिर्भवति, अतिबवीत्यर्थः । कस्य ? इत्याह-'ज्ञानिनों गीतार्थस्य । कथम्भूतस्य !, | जिमितस्य-उद्गमादिदोषविशुद्धाहारभोजिन इत्यर्थः । अगीतार्थों हि द्रव्यादिस्वरूपमविदन स्वाग्रहग्रस्तस्तकिमपि विकल्पयति वक्ति
विदधाति(वा), येन बुभुक्षादिकष्टं सहमानोऽत्रैवानर्थलक्षाण्याप्नोति मृतश्च भ्रमत्यनन्तं संसारं, शुद्धरभावात् । गीतार्थस्तु यथावद्रव्या| दिखरूपं पिर्दस्तत्किश्चिदाचरति येनात्रैव सर्वजनप्रि(पूजनी)यो भवति, परत्रापि च न स्पृश्यतेऽपायलेशेनापि प्राप्नोति च सर्वसुखसPम्पदः, तथाविधशुद्धिसद्भावात् । यदुक्तं