________________
सूई विजह असुत्ता, नासइ रेणुम्मि नित्रडिया लोए। तह जीवो त्रि असुन्तो, नासइ पडिओ भवरयम्मि ॥३२॥ व्याख्या -- यथा अस्मिलोके चिरपि अनुत्रा - छिद्राप्रोतसूत्रतन्तुः रेणुमध्ये निपतिता नश्यति, तथा जीवोऽपि असूत्रो-नधीतसिद्धान्तोऽशुभकर्मोदयवशाद्भवरजसि पतितस्सन्नश्यति प्रभ्रष्टबोधिलाभादिभावो दुःखान्यनेकान्यप्यनुभवतीति भावः, इति गाथार्थः ॥ एतेन च ज्ञानस्य बोधिलाभाक्षेपकत्वमेको गुण उक्तः, इदानीं तु तस्यैव चारित्रशोधकत्वगुणमाहजह आगमपरिहीणो, विज्जो वाहिस्स न मुणइ तिगिच्छं । तह आगमपरिहीणो, चरितसोहिं न याणेइ ॥ ३३ ॥ व्याख्या -- यथा आगमेन - आत्रेयादिऋषिप्रणीतशास्त्रादिरूपेण, परिहीणो-रहितो वैद्यो व्याधे-र्वरादिरोगरूपस्य चिकित्सां अपगमोपायरूपां न "मुण "त्ति प्राकृतलक्षणेन जानाते "र्शो जाण - मुणी" इति मुणादेशे जानाति । तथा आगमेन - कल्पव्यवहारादिरूपेण परिहीणस्साघुरपि अतिचारमलक्किन्नस्य चारित्रस्य शुद्धि (शोधिं ) - प्रायश्चित्तप्रदानेन निर्मलीकरणलक्षणां न जानाति, न्यूनाधिकं प्रायश्चित्तं दवा आत्मानमालोचकं च संसारभाजनं करोतीति भावः, इति गाथार्थः ||३३|| अथ ज्ञानादपि प्रधानवस्त्वेष न किञ्चिदस्तीति दर्शयतिकिं एत्तो लहरं, अच्छेरतरं व सुंदरतरं वा । चंदमिव सव्वलोया, बहुस्सुअमुहं पलोयंति ॥ ३४ ॥
व्याख्या--- किमेतस्मान् -ज्ञानालष्टतरं - शोभनतरं १, न किञ्चिदित्यर्थः । अथवा आश्चर्य - चित्तविस्मयरूपं प्रकृष्टमाश्चर्य माथर्यतरं, जनकं वस्त्वयुपचारादाश्चर्यतरं तदपि ज्ञानादन्यरिक १, न किमपीति भावः । चतुर्दशपूर्व विदामनुत्तरसुरशरीरेभ्योऽप्युत्कृष्टतरपुद्गलप्रकल्पितशैलानलाद्य स्खलितहस्तमिताऽऽहारकशरीरकरणादिशक्तिहेतुत्वाज्ज्ञानमेवोत्कृष्टाश्चर्यनिधानं नान्यदित्याशयः । यदि वा सुष्ठु
de