________________
व्याख्या -- यद्यपि दिवसेन समस्तेनाऽपि पदं धरति-अवतिष्ठते, पक्षेण वा श्लोकार्द्धमवतिष्ठते, तथाप्युद्योगं मा मुच, यदीच्छसि शिक्षितुं ज्ञानं । इयमत्र भावना - यद्यपि दिनादिना पदमात्रमेवागच्छति तथापि बहुना कालेन तद्बहु सम्पद्यते कर्मनिर्जरा च सञ्जायते, अतः श्रुतज्ञानमिच्छना सर्वदेवाध्येतव्यम्, यतः" योजनानां सहस्रं तु शनैर्याति पिपीलिका । अगच्छन्वैनतेयोऽपि, पदमेकं न गच्छति ।। १ ।। " इति गाथार्थः ।। २९ ।। अत्रार्थे सूत्रकार एवं दृष्टान्तमाह
जं पिच्छ अच्छेरं, तह सीयलमउयएण वि कमेण । उदएण वि गिरी भिन्नो, थोवं थोवं वईते ॥३०॥ व्याख्या -- यत् - यस्मात्प्रेक्षध्वमाथर्य, यदुत - ' तथा ' तेन लोकप्रसिद्धेन प्रकारेण शीतलमृदुनाऽपि स्तोकं स्तोकं वहताऽपि, एव | सत्राप्यपि शब्दः सम्बन्धनीयः, उदकेन नद्यादिसम्बन्धिजलेन क्रमेण गिरिर्भिन्नः सर्वजनप्रसिद्धं चैतत् । एवमत्रापि नित्यं स्तोकं स्तोकं पठन्तोsपि कालेन श्रुतरहस्य गिरिमेदिनो भवन्तीत्युपनय इति गाथार्थः ॥ ३० ॥
उक्तं ग्रहणविधिद्वारं, साम्प्रतं 'गुणाश्च के ? तस्येति चतुर्थद्वारमभिधित्सुराह
सूई जहा ससुत्ता, न नस्सइ कयवरम्मि पडिया त्रि । तह जीवो वि सलुतो, न नस्सइ गओ वि संसारे ॥३१॥ व्याख्या—यथा सूचिः समूत्रा-छियोतसूत्र निर्मितदवरका कचवरे पतिताऽपि न नश्यति । दवरकदर्शनानुसारेण पुनरपि गृह्यत | इति भावः । तथा जीवोऽपि सत्रः- पठितसिद्धान्तः अशुभकर्मोदयवशात्पतितः सन् संसारे गतोऽपि न नश्यति । पूर्वाधीतस्यैव श्रुतस्य महात्म्यात्पुनरप्याक्षिप्तबोधिलाभादिभावः स्तोककालेनैव सिध्यत्येवेति भावः इति गाथार्थः ॥ ३१ ॥ अत्र व्यतिरेकमाह