SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ विभाव्य योग्यस्यैव तौ देयो, न त्वयोग्यत्य, बहुतमदोषसम्भवादिति गाथार्थः ।। २६ ॥ अथामुमेवा घटान्तेन दृढयन्नाह... आगे रहे लिहिले, जहाजलं तं बलिणासह । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ।। २७ ॥ ___ व्याख्या-यथा आमे-अपरिपक्व घटे निक्षिप्नं जलं तमेव घटं विनाशयति, भूमिगमनादिभ्यः स्वयमपि तोर्य विनश्यतीत्यपि द्रष्टव्य, एवं सिद्धान्तरहस्यमप्यल्पाधार तुच्छप्राणिलक्षणं दीर्घरोगोन्मादादिभ्यो विनाशयति, स्वयमपि तत्सिद्धान्तरहस्यमुपहासाप्रीत्यादिभ्यो विनश्यतीत्यत्रापि स्वयं ज्ञेयमिति गाथार्थः ॥ २७ ॥ ___योग्येनापि शिष्येण ज्ञानं जिघृक्षता 'मम तथाविधा मेधा नास्त्यतो नेदं मया गृहीतव्य' इति न चिन्तनीयमित्याह मेहा हुज न होज व,लोए जीवाण कम्मवसगाणं। उजोओ पुण तह वि हु, नाणम्मि सया न मोत्तव्यो॥२८॥ ECो व्याख्या--"लोए"त्ति अस्मिन् लोके कर्मवशमानां जीवानां मेधा-बुद्धिः, कर्मक्षयोपशमसद्भावात् कस्यचिद्भवेत्तदभावात् कस्खें चिन्न भवेद्वा, तथाप्युद्योगः पुनः-उद्यमः पुननिऽध्येतव्ये सदा-निरन्तरं न मोक्तव्यः । अयम्भावः कर्मनिरैव हि साध्या, सा च प्रज्ञायत इतरस्य च श्रुताध्ययनं विदधतः सम्पद्यत एव, ततोऽल्पमेधसाऽपि 'मम न क्रिश्चिदागच्छती'त्युद्धेमतोऽध्ययनं सर्वथैव न | मोक्तव्यमिति गाथार्थः ॥२८॥ ननु यदि प्रतिदिनं श्लोकदशकविंशत्यादिकं किश्चित्पठतामागच्छेत् तदाऽधीमहि, यदा तु सकलेनापि | दिनादिना पदादिमात्रमेव किश्चिदागच्छेत् तदा किं तेनेत्याशङ्कयाह--- ४ जइवि हु दिवसेण पयं, धरिज पक्वेण बा सिलोगऽद्धं । उज्जोमा मुंचसु, जइ इच्छसि सिक्खिउं नाणं॥२९॥| ॐ
SR No.090390
Book TitlePushpamalaprakaranam
Original Sutra AuthorHemchandracharya
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy