________________
| धरप्रार्थितः कुमारो बन्धुमतीसहितो वैताढथे गतः। तद्गौरवण कियन्ति दिनानि स्थितः। ततो दशमदिने विद्याधरैः परिवृतो बन्धुमती | लात्वा नन्दिपुरे महामहोत्सवेन गतः । ततो गुणाकृष्टचित्तेन सूरसेन नृपतिना दत्ता स्वस्मिन्मनुरक्तां बन्धुमती परिणीतवान् । कालेन 3पित्रा इतेनाहूतो दशसहस्राणि गजान्-दशसहस्राणि स्थान-लक्षं अश्वान्-कोटिद्वयपदातीन् दत्वा सूरसेननृपेण विसृष्टो बन्धुमत्या सह
विजयसेनेन राज्ञा कारिखप्रवेशमहोत्सवा स्वपुरमा अन्यदा श्रीविजयसेननृपो भार्यामालती-पुत्रपुरन्दर-वधूवन्धुमत्यादिभिः सहान्तरङ्गमुपमितिकथोपदेशं श्रीविमलबोधकेवलिमुखान् श्रुत्वा गृहीतगृहिवतमनिच्छन्तमपि पुरन्दर कुमार राज्ये निवेश्य मालतीयुतस्तत्समीपे ,
दीक्षामादायोत्पन्चकेवलः कैवल्यमलभत । पुरन्दरराजा तु न्यायेन राज्यं पालयनन्यदा गवाक्षे पुरीं पश्यंस्तं पूर्वपरिचितं विघं उन्म E धूलिधूसरं लोकतेषुभिहन्यमानं चतुर्दिक्षु धावन्तमुपलक्ष्य दुःखी जातः, ततो विद्यां स्मृत्वा 'अत्रज्ञां कुर्वन् मयैवायं ग्रहिलीकृत' इति । | तन्मुखेन ज्ञात्वा तां बहुशोऽभ्यर्थ्य विप्रं सजी चके । ततः श्रीपुरन्दरनृपोऽपि चिरं राजसुखमनुभूय बन्धुमतीतनयं श्रीगुप्तं राज्ये संस्थाप्य बन्धुमत्या सह विमलबोधकेलिसमीये दीक्षा जग्राह । बहुश्रुतो गुर्वादेशादेकाकिप्रतिमया विहरन् कचिदुपग्रामं प्रेतवने ग्रीष्मे मध्याहे निरावरणमातापनां करोति । तदा च पूर्वप्रमथितपल्लीपतिना स्मृतप्रापराभवेन रालादिगर्भशणतृणादिना तं वेष्टयित्वाऽमिः ग्रोद्दीपितः।
तं चोपसगै तितिक्षमाणः शुक्लध्यानामिना तत्स्पर्द्धयेव निर्दग्धसकलकर्म(मलो)जालोऽन्तकृत्केवली सिद्धः । पल्लीपतिस्तु महापाप इति || 5 सर्वपरिवारेण निर्वासिता क्वापि रजन्यामन्धतमसेऽन्धकूपे पतितः खदिरकीलकप्रोतजकद्रौद्रपरिणामः सप्तमपृथिव्यामृत्कृष्टायुरप्रतिष्ठाने | समुत्पनः । बन्धुमत्यपि च ती तपस्तप्त्वा सिद्धा, इति पुरन्दरचरितं समाप्तम् ।।
तदेवं यथा योग्यस्य पुरन्दरकुमारस्य दत्ता विद्या सफलतां गता, अयोग्यस्य तु विप्रस्य अनर्थफला सञ्जाता, एवं सूत्रार्थावपीति ||
ThuriTIALका