________________
तदेतत्संवदितं यदभिहितं केनापि -
19
+6
" सन्निहियाणं विभोगद्राणं न कमलिणी जाया । सालूराणं दूरा-गया वि भुंजंति तं भ्रमरा ॥ १ ॥ इत्यादि चिन्तयन् गतः कुमारः स्वस्थानं । इतव बहुधा विलोकिताऽपि न कचित्प्राप्ता वार्त्ताऽपि कन्यायाः, ततस्तद्विरहेण व्याकुलीभूते विलपति नृपतौ मन्त्रिपुत्रेण श्रीनन्दनेनोक्तं- 'हे देव ! अन पुरे वैदेशिकोऽस्त्येकः कलावान् स निर्द्रव्योऽपि परमैश्वर्यवान् दाता भोक्ता च इति विद्यासिद्धः सम्भाव्यते इति स पृच्छयते । ततः सम्भावनयाऽपीषदुच्छ्रवसितेन राज्ञा मतितिलकप्रमुखप्रधानपुरुषः सानुनयमानावितस्तत्र कुमारः, सबहुमानं दृष्टः पृष्टवोचितं कुशलादि । ततो राज्ञाऽदिष्टेन श्रीनन्दनेन बन्धुमतीस्वरूपं पृष्टः कुमारचिन्तितवान्"व्यसनात्तभ्यर्थितार्थ जीवितं चेदपि व्रजेत् । यातु यातु फले लाते, शालेः शोषो न दुःखकृत् ॥ १ ॥ 'कस्य न स्युः प्रियाः प्राणाः १, लक्ष्मीः कस्य न वल्लभा ? | सतामवसरे प्राप्ते, द्वयमेतत्तृणायते ॥ २ ॥ " इति विचिन्त्य 'देव ! महत्साध्येऽप्यस्मिन्कार्य यदि देवस्य मयि सम्भावना ? तर्हि दशदिवसमध्ये चेत्कन्यां नानयामि तर्हि ज्वलज्ज्लनं प्रविशामी ति प्रतिज्ञां चकार कुमारः, ततो राज्ञा सम्मान्य विसृष्टः । स्वस्थानं प्राप्तं विधिस्मृता विद्या तं प्राह- अत्रैव भरते वैतायगिरौ पञ्चविंशतियोजनोचैः रजतमये गन्धसमृद्धनगरे मणिकिरीटो विद्याधरः, तेन नन्दीश्वरयात्रां कृत्वा वलमानेन रूपमोहितेन बन्धुमती हृता, स सम्प्रति गङ्गातटे घवलकूटगिरौ तस्याः पाणिग्रहणसामग्रीं कुर्वन्नस्ति, एहि तत्र यामि इति । एवं भवत्विति प्रतिप | विमाने निवेश्य विद्यादेवतया कुमारस्तत्र नीतः । तत्र परिणयनसामग्रीं कुर्वाणो हकितः कुमारेण मणिकिरीट:- रे ! किमारधं ? तस्क रमरोचितं । ततः प्रवृत्तं द्वयोर्दिव्यासैर्युद्धं ततस्सर्वथाऽजेयपराक्रमं कुमारं ज्ञात्वा त्यक्ताहङ्कारः प्रणतः खेचरा. ततो द्वयोर्मैत्री. विद्या