SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सोल्लासादिना सकौतुकाननः, 'हरिसागरहिति आगतहर्षेः, इषं च जनयद्भिराचार्यादीनामिति गाथार्थः ।। २४ ॥ एवं च श्रवणे श्रोतारो यल्लभन्ते तदाहगुरुपरिओसगएणं, गुरुभत्तीए तहेब विणएणं । इच्छियत्तस्थाणं, खिप्पं पारं समुवयंति ॥ २५ ॥ व्याख्या--गुरुपरितोषगतेन गुरुपरितोषजातेन सता, गुरौ परां प्रीति गतेनेत्यर्थः, गुरुपरितोषप्रकारेण वा, गुरुभक्त्या-तत्सेवारूपया, तथैव विनयेनासनदानादिरूपेण । किमेहेतुभिः स्यात् ? इत्याह-ईप्सितस्त्रार्थयोः क्षिप्रं-शीघ्र पारं-निष्ठां समुपयान्ति । | "सुत्तस्थाण"मिति सूत्रे बहुत्वं य(न) "दुश्चयणे बहुअयण"मिति प्राकृतलक्षणादिति गाथार्थः ॥ २५ ॥ ____ सम्प्रति यस्य सूत्राी देयौ तद्दर्शनपूर्व विध्यन्तरमाहसमयभणिएण विहिणा, सुत्तं अथो य दिज जोग्गस्स । विजासाहगनाएण, होति इहरा बह दोसा॥२६॥ व्याख्या-समयभणितो विधिलेशतो दर्शित एव, विस्तरस्तु स्थानान्तरादवसेयः । तेन समयभणितेन विधिना सूत्रं अर्थ च | दद्यास्त्वं, कस्य ? इत्याह-योग्यस्य अर्हस्य, न त्यपात्रस्य । कुतः ? इत्याह यतो विद्यासाधकज्ञातेन भवन्ति इतरथा दायकग्राहक्योः | सूत्रार्थयोश्च बहवोऽवर्णवादादयो दोषा इति गाथाऽक्षरार्थः । भावार्थस्तु कथानकमभ्यस्तछेदम् वाराणस्यां विजयसेननृप-कमलमालादेव्योरमगुरसौभाग्यभूमिः सकलकलाकेलिगृहं पुरन्दरः कुमारः । अन्यदा तस्यैव राझो राख्या मालतीनाम्न्या कुमारं स्म(मा)रानुकार विलोक्य विहलया विलजया चतुरट्या प्रकटितः खाभिप्रायः कुमारस्य पुरः। तं चाऽऽकर्ण्य | | कुमारेण चिन्तित-"अहो !! मोहस्य महात्म्यं, किश्चित्पश्यत पश्यत । लोकद्वयविरुद्वेऽपि, यतो जन्तुः प्रवर्तते ॥१॥"
SR No.090390
Book TitlePushpamalaprakaranam
Original Sutra AuthorHemchandracharya
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy