________________
"तुह विजाए पम्हुट्ट-मक्खरं जाणिकण जिणकहिये । वुच्छामि देह जड़ मह, बिजं परिवज्जियं तेण ॥ ५ ॥ " "तो कहर अभयकुमारो, लद्धीए पधाणुसारिणीए य । अक्खरमिमस्म खयरो, बिलं दाऊण उप्पडओ || ६ ||"
इत्येवं यथा हीनखेचरवारिवाद सम्पन्नस्तथा सूत्रेऽप्यक्षरादिहीनतायामभिधेयभेदस्तद्भेदे क्रियाविघातस्तद्विघाते चरणविसंवादस्तद्विसंवादे निर्वाणाभावस्तदभावे च दीक्षावैयर्थ्यमिति, एवं अधिकारादावपि दोषा वाच्याः, अतो यथोक्तगुणयुक्तमेव सूत्रं पठनीयम् । अर्थगतं तु विधिमाह तस्य सूत्रस्य अर्थस्तदर्थस्तस्मिन् श्रूयमाणे मार्जनं-शोधनं शुत्रः कर्त्तव्यं, निषद्या गुरोर्विरचनीया, अक्षा-वन्दनकास्तत्स्थापना कार्या, इत्यादिकः क्रमो - विधिः, आदिशब्दाद्वन्दनकदानादिपरिग्रह इति गाथार्थः ॥ २२॥ ar aaraana forधमाह -
निद्दा- विगहा - परिव-जिएहिं गुत्तेहिं पंजलिउडेहिं । भक्तिवहुमाणपुत्रं, उवउत्तेहिं सुणेयव्वं ॥ २३ ॥
व्याख्या --निद्रा-निद्रादिभेदात्पञ्चधा, विकथा - स्त्रीकथायाश्चतस्रस्ताभिः परिवर्जितः, तथा गुप्तै- निगृहीतमनोवाक्कायैः, तथा प्राञ्जलिपुटै:- संयोजित करकमलैः, तथा भक्ति- बह्मप्रतिपत्तिलक्षणा बहुमान वित्तानुरागरूपस्तौ पूर्वं यत्र तत्तथेति क्रियाविशेषणम्, तथैवोपयुक्त - दत्तावधानैः, एवम्भूतैः किं ? इत्याह-श्रोतव्यं आकर्णिनीयं गुरुक्तमिति शेषः, इति गाथाऽक्षरार्थः ।। २३ ।। पुनः कथम्भूतैः श्रोतव्यमित्याहअभिकखतेहिं सुहा-सियाई वणाई अत्थसाराई । विहियमुहेहि हरिसा - गएहिं हरिसं जणंतेहिं ॥२४॥ व्याख्या -- अभिकाङ्क्षद्भि- वञ्छद्भिः सुभाषितानि मधुराणि वचनानि, अर्थसाराणि - महार्थानि तथा विस्मितमुखै नेत्रविका
sadabad...
"