________________
दाता भवति । इह च साधुग्रहणेनाचार्यादेरपि ग्रहण, साधुत्वस्य सर्वत्रानुगमादिति गाथार्थः । शुद्धप्ररूपकस्यैव महात्म्य प्रकटयाहreasta विहारे, कम्मं सोहेइ सुलहबोही य । चरणकरणं विसुद्धं उवहंता परुतो ॥ २१ ॥ व्याख्या– विहारे-यथोक्तसंयममार्गप्रवर्त्तनरूपे अवसन्नोऽपि - शिथिली भूतोऽपि अशुभं कर्म शोधयति - निर्जरयति, जन्मान्तरे सुलभबोधिश्व-सुखप्राप्यजिनधर्मश्च स्यात् । किं कुर्वन् ? इत्याह- चरणकरण - महाव्रतपिण्डविशुद्धयादिगुणसन्दोहरूपं, विशुद्ध - अर्हद्भियथा गदितं, उपयन् - प्रशंसन् तथा प्ररूपयेदेति । एतेन च यथावदुपहितेन आत्मनिन्दापरगुणोत्कीर्तनरतो 'बंद न य वंदावेद" इत्यादिलक्षणयुक्तः संविप्रपाक्षिक उक्तः अस्य च कर्मशुद्धिस्सुलभबोधित्वं चोपलक्षणं, यावदैहिकामुष्मिको जनानुरागादिको गुणग्रामोऽन्योऽपि जायते, विपर्यये तु विपर्ययसद्भावात् । तथा चात्र पिण्डनिर्युक्त्युदाहृतमुदाहरणं सङ्घियोच्यते
,
महर्षिमेकमायान्तं दृष्ट्वा काचिद् गृहे निजे । अन्नाद्यादा(नमादा) य दानीयं निर्गताऽगान्मुनिस्ततः ॥ १ ॥ नीद्वारे गृहे तस्मिन शुध्यत्येषणेत्यतः । तदा सविस्मयं श्राद्धी, किञ्चिद् ध्यायति यावता ॥ २ ॥ तावदन्यो मुनिस्तन, समागात्संयमालसः । अशनादि तया तस्य तदस्वेति स जल्पितः ॥ ३ ॥ पूर्वागतो मुनिः किं न जग्राहैतदुवाच सः । नीचद्वारे भवद्गेहे, भिक्षा साधोर्न कल्पते ॥ ४ ॥ अहं तु तेनेमां गृह्णामीत्युदितेति सा । स्मरेत् खनिन्दकोऽस्त्यन्य-गुणग्राही गुणी ह्यतः ॥ ५ ॥ अतो दत्तं पुनस्तस्याशनादिविपुलं तथा । तावदन्योऽपि तत्रैकः समागात्संयमालसः ॥ ६ ॥ तदा तस्यापि सा सर्व तं वृत्तान्तं तथाऽवदत् । स प्राह मायया तेन, भिक्षा नोपाददे सदा ॥ ७ ॥
ORI