________________
व्याख्या-यः संविध-उद्यतविहारी, स च साचारावष्टम्भेनाद्वचनं यथावत्प्ररूपयत्यादेयवाक च स्यादत इदं विशेषण, यदुक्तंडा" गुणसुट्टियस्म बयण, महुधयसित्तोत्र पायको भासह । गुणहीणस्स न रेहड़, नेहविष्णो जह हईयो ।॥ १॥"
सविनश्च गीतार्थस्य गुरोः शिक्षका शिष्या)दिरपि स्यादित्याह- गीतार्थः-अधीनच्छेदग्रन्थादिसूत्रार्थः, अयं चोत्सर्गापवादो वेत्तीत्येहै। तद्विशेषणं । अगीतार्थो हि ज्ञानदानेऽनधिकार्येव, यतः
"सावनगवजाणं, वयणाणं जो न जागइ विसेसं | वोत्तुं पि तस्म न खमं, किमंग पुण देसणं काउं? ॥१॥"
___ गीतार्थोऽपि रागद्वेपाभिनिवेशतो गोष्ठामाहिलादिबदहद्वचनमन्यथाऽपि प्ररूपयेदित्याह-मध्यस्थो रागद्वेषाभिनिवेशवर्जितः । पुनः है कथम्भूतः १ इत्याह- देस"इत्यादि, देशः-पावस्थादिभावित क्षेत्ररूपा, काल:-सुभिक्षदुर्भिक्षादिः, भावः-परचित्ताभिप्रायादिलक्षणस्तान
जानातीति देशकालभावनः, यथोक्तदेशाद्यभिज्ञो हि तदनुसारेणैव शुद्धोञ्छदेशनादौ यतते इतीत्थं विशेषणं । ननु गीतार्थत्वेन देशाद्य| मिझता लब्धैव, कि पृथग्रहणेन ? इति चेदुच्यते-गीतार्थो हि कश्चिच्छास्वनिर्णीत देशादिस्वरूप विदन्नपि कर्मक्षयोपशमवैचित्र्यात्तथा| विधदक्षता-स्मृतिपाटवाद्यभावाद् व्यवहारकाले पाभिप्रायाटेरनुचितभाषणादौ प्रवर्तेन, इति व्यवहारकालेऽपि तदौचित्यप्रवृत्तिवैशिष्टय| ख्याफ्नार्थ पृथगेतद्विशेषणोपादान, अत एव षट्त्रिंशदाचार्यगुणेषु सूत्रार्थोभयातायाः सकाशाद्देशकालभावज्ञतादिगुणः पृथगुयात्त इति । पुनः कथम्भृतः ? इत्याह-शुद्धं-यथावस्थितं जिनवचनं प्ररूपयतीति शुद्धप्ररूपकः। ननु यथोक्तगुणविशिष्टः शुद्धप्ररूपक एव भधियति, किमनेन ?, सत्यं, (किन्तु) ज्ञानदातुः कदाचिदशेषगुणाभावेऽपि तीर्थप्रकृति हेतोयथावजिनवचनप्ररूपकत्वस्य गुणस्य प्राधान्यादवश्यान्वेषणीयत्वख्यापनार्थ पृथगुपादानं, अन्यथा विपर्ययसम्भवात् । यत्तदोनित्याभिसम्बन्धात्स एवंविधगुणविशिष्टस्साधु नस्य