________________
| एत्थं पुण अहिगारो, सुअनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽवि य, अणुओगपईवदितो ॥ १८॥ ____ व्याख्या-अत्र पुनः प्रकृतोऽधिकारः श्रुतज्ञानेन, कुतः १ इत्याह-"जओ"ति, यतः श्रुतेनैव शेषाणां मत्यादिज्ञानानामात्मनो
ऽपि चानुयोगो-व्याख्यानं क्रियत इति शेषः । तु शब्द एवार्थ, स च व्याख्यात एव । अत्र चार्थे प्रदीपदृष्टान्तः-यथा हि प्रदीप ४. आत्मानं शेषान घटादींश्च प्रकाशयति, नथेटमपीति । अयम्भाव:-इह घहिंसापरिज्ञानार्थ ज्ञान शिक्षणीयमित्युपदेशः प्रक्रान्तः, अहिं.
सायाच स्वरूपज्ञापने श्रुतज्ञानमेव मुखरं, न शेषनानानि, तेषां मूककल्पत्वात् , ततस्तेनैव श्रुतज्ञानेनात्राधिकार इति गाथार्थः ॥१८॥ ____ननु यदि श्रुतज्ञानेन शिक्षितेनाहिंसापरिज्ञानं, ततः कार्य सिद्धिस्तर्हि वर्तमानकालभाविना तथाविधमेधाऽभावात्सर्वस्य श्रुतस्य | एशिक्षितुमशक्यत्वादशक्यानुष्ठानोपदेश एवार्य भविष्यतीत्याशङ्कवाह। एकम्मि विमोक्ख-पयम्मि होइ जो एस्थ निञ्चमाउत्तो। तं तस्स होइ नाणं, छिदइ सो तेण दुहजालं ॥१९॥ 5 व्याख्या---एकस्मिन्नपि मोक्षकारणभृते अहिंसादिपदे जिनोक्त योऽत्र लोके नित्यमायुक्तः-अङ्गाङ्गिभावेन परिणततदर्थो भवति,
। तदेकमपि मोक्षपदं "तस्स" इति मोक्षपदे आयुक्तस्य ज्ञानं भवति. छिनत्ति च स तेन कारणभूतेन, दुःखयति संसारिणः प्राणिन इति * दुःखं, तस्य जालं, कारणे कार्योपचाराद्वाऽष्टविध कर्मसमूह । इदमुक्तं भवति-न वयं सम्पूर्णश्रुताध्ययनादेव स्वकार्यसिद्धि बमः, अपि तु रौहिणेयतस्करेन्द्र-चिलातीपुत्रादीनामिव यो यावति श्रुते नित्यमायुक्तस्तस्य तदपि श्रुतं स्वकार्यसिद्धये स्यादिति गाथार्थः ॥ १९॥
उक्तं किं ज्ञानमिति प्रथम द्वारं, इदानीं ज्ञानदातुरि बिभणिधुराहसंविग्गो गीयस्थो, मज्झस्थो देसकालभावन्नू । नाणस्स होइ दाया, जो सुद्धपरूवओ साहू ॥ २० ॥ .