________________
किं नाणं? को दांया ?, को गहणविही? गुणों य के तस्स ? । दारकमेण इमिणा, नाणस्स परूवणं बुच्छं ॥१६॥ का व्याख्या-प्रथमं किं ज्ञान ? इति वाच्यं, ततस्तस्यैव ज्ञानस्य को दाता समुचितः ? इति भणनीय, ततस्तस्यैव को ग्रहणविधिः? | इति ख्यापनीयं, ततस्तस्यैच को गुणः ? इति प्ररूपणीयं, द्वाराणां क्रमेणानेनोक्तस्वरूपेण ज्ञानस्य प्ररूपणां स्वरूपनिर्णयात्मिकां वक्ष्ये | | इति गाथार्थः ।। १६ ।। तत्र प्रथमद्वारमाह
आभिणियोहियनाणं, सुअनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं, केवलनाणं च पंचमयं ॥ १७ ॥ ____ व्याख्या-अमीत्याभिमुख्ये, नि इति नैयत्ये, ततश्चागिसोऽर्थग्रहपोयनिदेशावस्थानाक्षी निपत इन्द्रियाण्याश्रित्य स्व
खग्रहणपरिणतो बोधोऽभिनिबोधः, स एवाभिनिबोधिकं, तच्च तज्ज्ञानं चाभिनिबोधिकज्ञान, इन्द्रियपञ्चक-मनोनिमितो वस्त्ववबोध | इत्यर्थः। श्रवणं श्रुतं-अभिलापप्लारितार्थोपलब्धिविशेषः, तञ्च तज्ज्ञानं च श्रुतज्ञान, इन्द्रियपश्चक-मनोनिमित्त एवाभिलापारोपितो बोध | एवेत्यर्थः। अवधि-मर्यादा, तेनावधिना रूपिद्रव्यग्रहणात्मकेन ज्ञानमवधिज्ञानं, इन्द्रिय-मनोनिरपेक्ष आत्मनः साक्षाद्रपिवस्तुग्रहणास्मको बोध इति भावः । संबिभिजीवः काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि वस्तुचिन्ताप्रवर्तकानि
द्रव्याणि मनासीत्युच्यन्ते, तानि पर्येति-अवगच्छतीति मनःपर्यायमिति कर्मण्यण [३-२-१पा० । तच्च तज्ज्ञानं च मनःपर्यायज्ञानं, ४ अर्द्धवतीयद्वीपसमूद्रान्तसिंज्ञिजीवचिन्तितार्थप्रकटनपटुरिन्द्रिय-मनोनिरपेक्ष आत्मनः साक्षात्प्रवृत्ती बोध एवेति हृदयम् । केवलं
असाधारण सम्पूर्णज्ञेयग्राहि-वात्सम्पूर्ण वा, तच्च तज्ज्ञानं च केवलज्ञानं रूप्यरूपिवस्तुग्राहकं पञ्चमज्ञानमिति गाथासंक्षेपार्थः । व्यासार्थस्त्वावश्यकादिभ्योऽवसेय इति । अत्र च 'च-एवं-तथा, शब्दाः पादपूरणे ॥१७॥ अर्थतज्ज्ञानपञ्चके येनेहाधिकारस्तदाह