________________
नवमे शुभभावतः ॥ ४१ ॥ ततोऽपि जम्बूद्वीपेऽस्मिन् प्राग्विदेहेषु विश्रुता । विजये मङ्गलावत्यां, नगरी पुण्डरीकिणी ॥ ४२ ॥ राजा घनरथस्तीर्थ-क्रूरः पद्मावती प्रिया । पुत्रस्तयोर्मेधरथो, राजा न्यायवनाम्बुदः || ४३ ॥ प्राज्यं राज्यं परित्यज्या - यदाऽसौ जीर्णपर्णवत् । दीक्षामुपाददे स्वस्य पितुस्तीर्थकृतः क ( रा ) रे || ४४ ॥ अत्युत्कृष्टं तपः कृत्वा तीर्थकुञ्चक्रभृधि । अर्जयित्वा शुभध्यानात् सर्वार्थे त्रिदशोऽजनि ॥४५॥ ततोऽत्र जम्बूद्वीपेऽस्मिन् हस्तिनापुरभूर्भुजः । विश्वसेनस्य जायायाः, अचिरायाः सुनन्दनः ॥ ४६ ॥ पञ्चमवणि तीर्थ-कराणां षोडश सः । जातः श्रीशान्तिनाथोऽयं, सिद्धिश्रीसङ्गरङ्ग
॥ ४७ ॥
॥ इति श्री शान्तिनाथ चरित्रं समाप्तम् ॥
,
तदेवं यथा भगवता शान्तिनाथेनाष्टमे वज्रायुधभवे पारापतस्याभयदानमदायि तथाऽन्येनापि तत्सर्वजीवेभ्यो दातव्यमिति गाश्रार्थः ॥ १० ॥ य एव चाभयप्रदाननिरतो धर्मस्थितोऽपि स एवोच्यते, न शेष इति दर्शयन्नाह—
जह मम न पिये दुक्खं, जाणिय एमेव सयलजीवाणं । न हणइ न हणावेइ य, धम्मम्मि ठिओ स विपणेओ ॥
व्याख्या- यथा मम न प्रियं दुःखं, एवमेव अप्रियं सकलजीवानामपीति ज्ञात्वा " यत्तदोर्नित्याभिसम्बन्धा" यो न इन्ति तथा न घातयति परैः । कान् ?, “जीवाणं" इति षष्ठयन्तमपि "अर्थवशाद्विभक्तिपरिणाम" इति जीवान्, 'च' शब्दात् अन्तथ पराभानुजानीते, धर्मे स्थितः स एव विक्रेयो, नान्य इति गाथार्थः ।। ११ ।।
तदेवमभयदाननिरतानां विस्तरतो गुणान् दर्शयित्वा सम्प्रति विपर्ययवतां दोषान् दिदर्शयिषुराह—