________________
21
व्याख्या - देवेन्द्रचक्रवर्त्तित्वानि भुक्त्वा अनन्तं शिवसुखं-मोक्षसुखं प्राप्ता अनन्ताः सच्चाः प्राणिनः । किं कृत्वेत्याह-अभयं समस्तप्राणरक्षणरूपं दत्वा जीवानां प्राणिनामिति । इदमत्र तात्पर्य-कर्ममलप्रक्षालनजललीलाबलंबिनीं समस्तजन्त्व भयदानरूपां परिपाल्य प्रव्रज्यां तदनुभावादनुभूय देवेन्द्रत्वं ततः सम्प्राप्य चक्रर्वर्त्तित्वं पुनः पर्यन्ते प्रतिपद्येोक्तरूपां प्रव्रज्यां विमलकेवलालोकमासाद्य सिद्धा अनेनापि क्रमेणानन्ताः प्राप्यन्ते, ये पुनरमात्यादिसामान्यविभूतीरनुभूय ततः सिद्धास्ते प्रभूता एवेति गाथार्थः ॥ ९ ॥ यद्येवं ततः किं कर्तव्यमित्याह-
तो अत्तणो हिएसी, अभयं जीवाण देज निश्चपि । जह वज्जाउहजम्मे, दिण्णं सिरिसंतिनाहेण ॥ १० ॥
व्याख्या- ततः- पूर्वोक्तात्कल्याणकोटिजनकत्वाद्धेतोः, आत्मनः स्वस्थ हितैषी - हितेच्छुः सन्नभयं जीवानां नित्यमेव दद्याः, | मरणमीरून जन्तून् सदैव रक्षेस्त्वमिति शिष्योपदेशः, अथ उपदेशोऽपि सदृष्टान्त एवोक्तः कर्त्तव्यतया सम्यक्परिणमतीत्यतस्तमाह-यथेत्युदाहरणे, यथाऽष्टमे वज्रायुधजन्मनि श्रीशान्तिनाथेन - षोडशतीर्थकरेणाभयं दत्तं तथा त्वयाऽपि देयमित्यक्षरार्थः । भावार्थस्तु कथाcarrrrrr विस्तरतः श्रीशान्तिचरित्रादेः सुगममिति नेह प्रपञ्च्यते, केवलं स्थानाशून्यार्थ किञ्चिदुच्यते, यथा
जम्बूद्वीपामिधानेऽस्मिन् द्वीपेऽस्ति प्राम्बिदेहगः । सीताया दक्षिणे भागे, बिजयो मङ्गलावती ॥ १ ॥ तत्रास्ति नगरी रखस या रत्नसश्या । तत्र क्षेमङ्करो राजा, योगक्षेमङ्करः सताम् || २ || रत्नमाला प्रिया तस्य, रत्नमालेव निर्मला । सगुणा हृदयामैव, जहुर्यां केsपि सञ्जनाः ॥ ३ ॥ अन्यदा देवदेवीषु पयाचितशतैस्तयोः । नाम्ना वज्रायुधः पुत्रः पूर्वपुण्योदयादभूत् ॥ ४ ॥ स्पर्द्धयेव