________________
न्चन्याला
सो य अहिंसामूलो, धम्मो जियरागदोसमोहेहिं । भणिओ जिणेहिं तम्हा, सविसेस तीऍ जइयव्वं ॥५॥ । व्याख्या–स चानन्तरं कर्तव्यतयोपदिष्टः श्रीजिनधर्मः अहिंसामूलो-जीवदयामूलो जितगगद्वेषमोहै - भग्नरागद्वेषाज्ञानजिनस्तीर्थकृद्धिर्भणितः, यथा “धन्नाणं रक्खणहा, कीरति यईओ जह तहेवेत्थ । पढमवयरक्खणहा, कीरति बयाई सेसाई ॥१॥" ततश्च । किं कर्तव्य? इत्याह-तस्मात्सविशेष तस्यामेवाहिंसायां यतितव्यमिति गाथार्थः।।५।। अथाहिंसातोऽन्यधर्मस्य गरीयस्त्वाशङ्कां निरस्पनाहकिं सुरगिरिणो गरुयं, जलनिहिणो किं व होज गंभीरं । किं गयणाओ विसालं, को वा अहिंसासमो धम्मो॥६॥ ____ व्याख्या-इहाय किं शब्दोऽयलापे, ततोऽयमर्थः-किं सुरगिरेमेरोः सकाशाद् गुरुक-बृहत्तर बस्त्वस्ति ?, किं वा समुद्रादपि गम्भीरं ?, किं गगनाद्विशालं-विपुलं ?, को वा अहिंसया समो धर्मः समस्ति ?, नास्तीत्यर्थः, अयम्भावः-अहिंसासमोऽप्यपरो| | धर्मो नास्ति, किं पुनर्गुरुरिति, तथा चाहुस्तीर्थान्तरीयाः-"हेमधेनुधरादीना, दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके, यः प्राणि| वभयप्रदः ॥१॥ महतामपि दानाना, कालेन क्षीयते फलं । भीताभयप्रदानस्य, क्षय एव न विद्यते ॥२॥ दत्तमिष्टं तयस्ततं, तीर्थसेवा तथा श्रुतं । सर्वाण्यभयदानस्य, कलां नार्धन्ति षोडशीम् ।। ३ ।। एकतः क्रतवः सर्वे, समग्रवरदक्षिणाः । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् ॥ ४ ॥ सर्वे वेदा न तत्कुर्युः, सर्वे यज्ञा यथोदिताः । सर्वे तीर्थाभिषेकाच, यत्कुर्यात्प्राणिनां दया । ५ ॥ ददातु दान विदधातु मौन, वेदादिकं चापि विदाङ्करोतु । देवादिकं ध्यायतु सन्ततं वा, न चेद्दया निष्फलमेव सर्वम् ।। ६ ॥ सकमलवनमग्नेर्वासरं भास्वदस्ता-दमृतमुरगवस्त्रात्साधुवाद प्रवादात् । रुगपगममजीर्णाजीवितं कालकूटा-दभिलपति वधाद्यः प्राणिनां धर्ममिच्छेन् ।। ७॥