________________
PEK
मात्कृत्य दिक्षु क्षिपेत् । अप्येषा परमाणुसंहतिरिहानन्तैः परावर्तिते-स्तो स्तम्भाकृतिमेति नैव भविना भूयोऽपि मानुष्यकम् ॥ १३ ॥ |
" इति दशापि दृष्टान्ता मनुष्यभवदुर्लभत्वे दर्शिताः, तत्रापि प्राने मनुजजन्मनि रोरस्य-अतिनिपुण्यकमाणिनो स्लादीनां निधिरिव
दुर्लभो-दुरखापो भवति जिनधर्मो दानशीलतपोभावरूप इति । ननु निहेतुकस्य कार्यस्यासम्भवान्मनुजत्वजिनधर्मदुर्लभत्थे को हेतुरिति । चेत् ?, उच्यते-"आदौ सूक्ष्मनिगोदे, जीवस्यानन्तपुद्गलावतान् । तस्मात्कालमनन्तं, व्यवहारवनस्पती वासः ।।१।। उत्सर्पिणीरसङ्ग्यः ,
प्रत्येकं भू-जला-ग्नि-पवनेषु । विकलेषु च सङ्ख्येयं, कालं भूयो भ्रमणमेवम् ।।२।। तिर्यपञ्चेन्द्रियता, कथमपि मानुष्यकं ततोऽपीह। | क्षेत्रकुलारोग्यायु-बुद्धयादि यथोत्तरं दुरखापम् ॥३॥" इति । आह च भाष्यकार:-"दसहिं उदाहरणेहिं, दुलहं मणुयसणं जहा भणियं ।। | तह जाइकुलाईणि वि, दूसदिट्टतेहिं दुलहाई ।।१।। एत्थं पुव्वं पुवं, लद्धपि तदुत्तरं पुणो दुलहं । जम्माणुमाईणं, अइदुलहो तेण जिणध|म्मो ॥२॥" अतो दुर्लभावेव मानवभवजिनधर्माविति गाथार्थः ।।३।। अथ दुर्लभमनुजत्वजिनधर्मयोः प्राप्तयोर्यकर्त्तव्यं तदाह-- तं चेव दिव्यपरिणइ-बसेण कह कहवि पाविउं पवरं। जइयव्वं एत्थ सया, सिवसुहसंपत्तिमूलम्मि ॥४॥ |
व्याख्या-तं चेति, तत्पुनरनन्तरोक्तं सजिनधर्म मनुजजन्म। एष शब्दोऽयं द्वितीयार्थ "रत्य"नि पदे योज्यते । “दिव्व"ति देवं, प्रस्तावान्मनुजत्वजिनधर्मप्राप्त्यनुकूलं कर्म, तस्थ परिणति-विपाकः, तद्वशत्वेन-आयत्ततया, कथं कथमपि-महता कष्टेन प्राप्यलध्या प्रवरं-प्रधानं यतितव्यं यतः कर्तव्यः । क्व ? इत्याह----""त्ति एतस्मिन्नव जिनधर्म सदा-सर्वकालं । जिनधर्म एव कुतो यतितव्यं ? इत्याह-शिवसुखसम्पत्तिमूलत्वात्-मोक्षसुखप्राप्तिकारणत्वात् , नान्यत्रेति गाथार्थः॥४॥ अथ च जिनधर्मोऽपि दानधर्मप्रधानिस्तत्रापि "दाणाणमभयदाणं" इति [अत्रैव चतुष्पञ्चाशदधिकशततमगाथायामुक्तत्वात] प्रथमतोऽभयदानोपदेशमाह