________________
व्याख्या — यतो- यस्माद्विशिष्टयतिधर्मभावकधर्मावन्तरेणान्यो मोक्षविषये नास्त्युपायः कोऽपि जिननिर्दिष्टः तस्मात् "दुहओ" ति विशिष्टयतिधर्म-श्रावकधर्मास्यां प्रकाराभ्यां ये "बुक्क"ति भ्रष्टास्ते सर्वेभ्योऽपि गतिभ्यः - प्रकारेभ्यो भ्रष्टा एव द्रष्टव्या इति गाथाथी ४६० ततः किमित्याह - तो अवगयपरमत्थो, दुविहे धम्मम्मि होज्ज दढचित्तो । समयम्मि जओ भणिया, दुलहा मणुवाइ सामग्गी ||४६७॥ ॥ व्याख्या - ततोऽवगतपरमार्थः सन् यतिश्रावकमेदाभ्यां द्विविधे धर्मे दृढचित्तो भवेस्त्वं यतः समये सिद्धान्ते दुर्लभा मनुष्यत्वादिसामग्री भणितेति गाथार्थः ४६७॥ तचातिदुर्लभं मनुजत्वं कथमप्यवाप्य यो धर्मविषये प्रमाद्यति स मरणकाले शोचतीत्याहअइदुलहं पिलहुं, कहमवि मणुयत्तणं पमायपरो । जो न कुणइ जिणधम्मं, सो झुरइ मरणकालम्मि ||४६८||
उक्तार्था ||४६८ ॥ कथं शोचतीत्याह
-
जह वारिमज्झछूढो व्व, गयवरो मच्छउव्व गलगहिओ । वग्गुरपडिओ व मओ, संवद्इओ जहव पक्खी ॥४६९ ।। व्याख्या - गजबन्धनोपायभूतं यस्कूटं विरच्यते तद्वारीत्युच्यते, ततो यथा तन्मध्यक्षितो गजः शोचति पचाचापं करोति, यथा वा वंशाग्रत्रपर्यन्तमवामिषखण्ड लोहमयचक्र कीलवरूपेण गलेन - बिडिशेन गृहीतो गलगृहीतो मत्स्यः शोचति, यथा वागुरा यामाखेटिक जनप्रसिद्धायां पतितो मृगः शोचति, संवर्धितो वा पाशेन बद्धः पञ्जरे क्षिप्तो यथा पक्षी शोचति तथा जीवोऽप्यकृतशुभसश्चयो मरणकाले शोचतीति गाथार्थः || ४६९ || यस्तु विभवादिष्वस्थिरेषु प्रतिबद्धो धर्मे प्रमाद्यति सोऽप्यज्ञ एवेत्याह