________________
अथ जम्बूद्वीपे महाविदेहे पुण्डरीकियां पुर्यां वरसेनश्चक्री, सोऽन्यदा समवसरणे जिनदेशनां शृणोति, वावत्सप्तमकल्पादष्टौ सरान् दीप्तिभासुरान् सुरभिगन्धवासितसर्वपर्पदो बन्दनार्थमागतान् दृष्ट्वा विस्मितश्चक्री जिनमपृच्छन्-भगवन् ! एते देवा कृत आणता ?, के च पूर्वभवे आसन् ?, किमतः हा कृतं तं', पहिला सामग्रमादि गुरगणं परिभवन्ति । जिनः प्राह-धातकीखण्डभरते महालयपुरे वसुश्रेष्ठी, तस्य धन-विमल-शव-बरसेन-शिव-वरुण-सुयश:-सुव्रतनामानोऽटसुताः । सर्वे कलासु कुशला रूपलावण्य गुणकलिताः स्थिरचित्तास्तीर्थकरपावेऽविधपूजाफलं श्रुत्वाऽष्टावपि प्रत्येक तां विधाय कुसुमादिभेदेवेक मेदं विशेषतः सम्पाद्य पञ्चविंशतिलक्षपूर्वाणि जिनपूजां विधाय तथा द्वादशवतानि निरतिचाराणि प्रतिपाल्य पर्यन्ते मासं मासमनशनं कृत्वा सप्तमकल्पे सर्वेऽप्येकस्मिन्नेव विमाने सप्तदशसागरायुषः सुरा जाताः, जिनघूजामाहात्म्यतत्रिभुवनजनमनोहारिरूपादिगुणाः प्राप्ताः । अवभिना पूर्ववृत्तान्तं ज्ञात्वाऽस्मदर्शनार्थमागता एते, अतश्युत्वा विदेहेषु सेत्स्यन्ति, इति श्रुत्वा चक्रवनिप्रभृतिप्रभूतजनो जिनपूजाअभिग्रहान् गृहीत्वा प्रतिपाल्य परमफलं प्राप्तवान् । इति पूजाफले विमलादिकथानकं समासम् ॥
इइ च कुसुमपूजोदाहरणे धननाम्नि विद्यमाने यत्पूर्व कुसुमेषु कीरयुग्मोदाहरणमुक्त, तत्तथाविधविवेकविकलानां तिरश्वामपि मावशुद्ध्या जिनपूजा विधीयमाना मदते गुणाय स्थाद, किं पुनर्मनुष्याणामित्यस्वार्थस्य दर्शनार्थ मन्तव्यम् । तस्मिथ ॥ तत्रोक्ते यदिह सूत्रेऽनुपातमपि कुसुमे धनोदाहरणं तत्प्रस्तुतकथासम्पूर्णतासम्पादनार्थमनसेयमिति।
अथ जिनदीक्षा कर्तुमसमर्थो यदि श्रावकत्वमपि जिनपूजनादिना सम्यग् नाराधयेत्तदा तेन हारितमेव जन्मेति दर्शयन्नाहअन्नो मुक्खम्मि जओ, नत्थि उवाओ जिणेहिं निद्दिद्यो। तम्हा दुहओ चुक्का, चुक्का सबाण वि गईणं ।।४६६॥