________________
%D
व्याख्या---पुष्पेषु तावस्कीरयुगलं-शुकमिधुनमुदाहरण, गन्धादिषु विमलशखबरसेनाः शिश्वरुणसुयशस्सुव्रता क्रमेण JP पूजायामुदाहरणानीति गाथार्थः ॥४६॥ तानि चासूनि
__ अन्न भरते मध्यमखण्डे बनविशालाटच्या खेचरकारितरत्नमयजिनभवनबारे सहकारे कीरयुग्मं स्थितं, श्राद्धान् श्रीजिनं पूजयन्तो दृष्ट्वा हृष्ट, तदापि वनकुसुमैजिनमपूजयत्, शुभभावप्रकर्षालब्धं चोधिबीजं, तत्पुण्याच्छुकजीवः पृथिवीतिलकपुरे जितशत्रुनृपपुत्रोऽजनि । तस्मिन् गर्भस्थे मातुः स्वप्ने कुण्डलयुगलदर्शनापितुर्निधिप्राप्तेश्च निधिकुण्डल इति तमाम कृतं, कीरभार्याऽपि मृत्वाऽन्यत्र पुरे पुरन्दस्यज्ञानाम्नी नृपनन्दना दैववशानिधेिकुण्डलस्य राज्ञी (तातत्र तो भोमान् भुक्त्वा जिनधर्मपरौ द्वितीयकल्पे शकसामानिको जातो, तरुणयुतो, निधिकुण्डलजीवो ललिताङ्गनामा नृपपुत्रोऽभूत् । अन्योऽप्यमरो नृपगृहे उमादेवी पुत्री जाता। तत्रापीयं स्वयंवरा ललिताशेन परिणीता। ततो राज्यं प्रपाल्य तीर्थका पार्श्वे प्रव्रज्य सम्यगाराध्य द्वाक्पीशानदेवलोके देवौ जाती। ततो ललिताङ्गजीवो देवसेनाख्यो राजसुता सनातः, इतरोऽपि वेतात्ये चन्द्रकान्तामिधा खेचरपुत्रीस्वेन सजातः । तत्रापि देवसेनो देवश्चातां परिणीय राज्यं भुक्त्वा पश्चात्प्रवज्या प्रतिपय परिपाल्य प्रमलोके द्वावपीन्द्रसामानिको सुरौ जाती। तसभ्युत्वा देवसेनसुरो महाविदेहे पूर्वभाये प्रियङ्करामिश्चक्रवर्ती इतरस्तस्यैव मन्त्री जातः । पूर्वभवाभ्यासतस्तयोरत्यन्तं प्रेमासीत् । ततो विस्मितचित्ताभ्यो ताभ्यामन्यदा स्नेहकारणं पृष्टस्तीर्थकरः कीरभवादारभ्य जिनपूजनादिवृत्तान्तं तयोस्सर्वमचीकयत् । तमूस्खा संवेगात्ताभ्यां तस्यैव तीर्थकरस्य पादमूले प्रवज्या प्रतिपना, कालेन तौ गीतार्थो भूत्वा तीब्राभिग्रहान् प्रपाल्य केवलज्ञानवत्पाधापगतकर्माशी सिद्धौ । इति कीरयुग्माख्यानकं समाप्तम् ।
EAR R-RHESARKAR