________________
शेषाः, ते चेह धर्मविषया द्रष्टव्याः, जिनवचनोद्धृतत्वादेव, तेपां माला-परिपार्टी, एतां वक्ष्यमाणां, रचयामि-करोमि, कामिव ?, करकुसुममालामिव, यथा कश्चित्कुतश्चित् काननात्कुसुमान्यादाय श्वेतादिवर्णविशिष्टां दृढमूत्रतन्तुप्रधानां कुसुममाला रचयति तथाऽहमपीति। अत्र चोपदेशमाला रचयामीत्यभिधेयाभिधानं, प्रयोजनं तु कर्तुरनन्तर सच्चानुग्रहः, श्रोतुश्च दानादिधर्मपरिज्ञानं, परम्परन्तुभयोनिःश्रेयसावाप्तिः, सम्बन्धस्तूपायोपेयरूपः शास्त्रधर्मोपदेशयोः सिद्ध एव, जिज्ञासितधर्ममर्माणश्चेहाधिकारिणः, एतच त्रितयमपि सूत्रे साक्षादना-13 ख्यातमपि सुप्रतीतमेव, मङ्गलं तु त्रिभुवनगुरुनमस्करणलक्षणं प्रथममेव दर्शितमिति सकलशास्त्रकारप्रवृत्तिरनुसतेति गाथार्थः ।।२।। ___अथ ये मनुजजन्मनो धर्मस्य च सुलभत्वमाकलय्य प्रमादनिद्रामुद्रितनयनास्तास्तदुले भन्योपदेशेन जागरयति
रयणायरपन्भलु, रयणं व सुदुल्लह मणुयजन्म । तथवि रोरस्स निहिव्य, दुल्लहो होइ जिणधम्मो ॥ ३ ॥ या व्याख्या-रत्नाकरप्रभ्रष्टं अब्धौ पतितं रत्नमित्र सुदुर्लभ अतिदुर्लभं मनुजजन्म-मनुष्यभवो जीवेन, एतेन च "चुल्लंगपासंग-15
धन्ने, जूऐं रयणे य सुमिणचके य । चम्मजुगे परमाण, दस दिता मणयलंभे ॥१॥" एते दशापि सिद्धान्तप्रसिद्धा मानुषजन्मा-1 तिदुर्लभत्वदृष्टान्ताः सूचिताः, तत्र "चोल्लग" इति देशीयभाषया भोजने, 'चर्म' शब्देन महाजलाशयोपरिवर्तिघननिबिडसेवालमिहाह।
एतत्कथासूचकानि चामूनि काव्यानि-----
१-विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदनात्पुरा, क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय । इत्थं लब्धवरोऽथ | तेष्वपि कदाऽप्यन्नात्यहो!! द्विः स चेत भ्रष्टो मर्त्यभवात् तथाप्यमुकती भूयस्तमामोति न ॥१॥२-सिधूतकलाबलाद्धनिजनं जित्वाऽथ हेम्नां भैरै-थाणाक्येन नृपस्य कोशनिकरः पूर्णीकृतो हेलया । दैवादाढ्यजनेन तेन स पुनजीवेत मन्त्री क्वचिद्, भ्रष्टो मर्त्यभवात्