________________
SARKला
| तथा अकलङ्क-गोगजतुरगाधनाक्रमणीयसिंहलाञ्छनं, यद्वा अकलङ्क-अविद्यमानव्रतलोपादिवचनीयं । तथा असङ्ग-सबाह्याभ्यन्तरपरिग्रहरहितं । तथा अक्षदं, अक्षाणि-इन्द्रियाणि, द्यति-खण्डयति स्वेच्छाप्रवृत्तिप्रतिरोधेनेत्यक्षदं, यद्वा अक्षयं-अविनाशिमुक्तिपर्यायं । तथा धी:-सकलावरणविनमुक्ता समस्तवस्त्ववोधशक्तिः, तया राजते तां राति वा तत्प्रापणप्रवणोपदेशद्वारेणेति धीरस्तं धीरं, यद्वा तथाविधयरीषहोपसर्गसंसर्गेऽप्यप्रकम्पं, अनन्तवीर्यत्वात् । तथा सुगतिप्रत्यलपरं, सुदेवत्वसुमनुजत्वसिद्धिलक्षणायाः सुगतेः प्रापणे [ये]
प्रत्यलाः समर्थास्तेषु परं-उत्कृष्टं । तथा अर्थप्रकाशनं, अर्था- ज्ञानादयो जीवादयो वा, तान् प्रकाशयतीत्यर्थप्रकाशनः, “ कृत्ययुटोऽ-| |न्यत्रापि चे"ति ["कृत्यल्युटो बहुल” पा०-३-३-११३] कर्तरि युद, ती अथवा सुगतेः प्राययो 'प्रत्यलाः' परमा:-सधुक्तिरिक्तपरपारेकल्पितपदार्थभ्यो व्यतिरिक्तत्वेन उत्कृष्टया अथां-ज्ञानादयो जीवादयो वा, तान प्रकाशयतीत्येकमेव विशेषणम् । अत्र च अकर्माणमित्य| नेनापायापगमातिशयो धीरमित्यनेन ज्ञानातिशयः सुगतिप्रत्यलेत्यादिना वचनातिशयः साक्षादाख्यातः,एतादृग्गुणग्रामरमणीयश्वावश्य | भक्तिभरनिर्भरसुरासुरनिकरकोटीरकोटिधृष्टपादपीठोपकण्ठ एव स्यादिति पूजाऽतिशयोऽप्यर्थादुक्त एव,इत्यनन्यसाधारणमतिशयचतुष्टयं : | भगवतः प्रकटितमिति ! तथा अत्र स्वपरोभयार्थसम्पत्तयस्तदुपायाश्च भगवतः प्रेक्षावद्भिविशेषव्याख्यानुरोधेन स्वयं परिभावनीया इति गाथार्थः ॥ १ ॥ अथ ग्रन्थकारः कतिचित्सुकृतोपदेशरचनं प्रतिजानीते-- जिणवयणकाणणाओ, चिणिऊण सुवण्णमसरिसगुणड्ढे । उवएसमालमेयं, रएमि वरकुसुममालं व ॥२॥ | व्याख्या-जिनवचनमेव कानन-वनं, तस्मात्"चिणिऊण"चित्वा-सगृह्य, अर्थाद्धर्मोपदेशान्, शोभना वर्णा-अक्षराणि यस्यां सा सुवर्णा, तां । तथा असदृशाः-सिद्धिप्रापकत्वेनानन्यतुल्या गुणा ज्ञानादयस्तैराढ्या-परिपूर्णा, तां । उपदिश्यन्त इत्युपदेशाः-वाक्यवि