________________
अथ चिनयद्वारं विभणिपुः पूर्वेण सह सम्बन्धगर्भा गायामाह -
इय भवविरतचित्तो, विद्धचरणाइगुणजुओ निचं । विणए रमेज्ज सच्चे, जेण गुणा निम्मला हुति ॥३९७॥ व्याख्या - इत्थं भवविरक्तचित्तो विशुद्धचरणादिगुणकलापेन युक्तो नित्यं सध्ये-मायावदूषिते विनय एवं रमेत कुतः ? इत्याह-येन विनयेन हेतुभूतेन सर्वे गुणा निर्मला भवन्ति, विनयस्य सर्वगुणालङ्कारहेतुत्वादित्यर्थः । इति भवविरागद्वारानन्तरं विनयद्वारमुच्यत इति गाथार्थः ॥ ३९७ ।। तत्र सावद्विनयशब्दस्यार्थमाह
जम्हा विणय क्रम्मं, अलविहं वाउरसमीच्खाए । तम्हा उ वयंति विऊ, विणओ चि विलीण संसारा ॥ ३९८ ॥ व्याख्या - यस्माद्विनयति-स्फेटयन्यष्टप्रकारं कर्म तस्माद्विलीनर्ससाराः विदो - ज्ञानिनस्तीर्थ करगणधरा विनय इति वदन्ति, किमर्थं पुनरसों कर्म विनयति ? इत्याह- चत्वारोऽन्ता नारकादिगतिलक्षणा यस्यासौं चतुरन्तः, चतुरन्त एव चातुरन्तः - संसारस्तस्य मोक्षो ऽवगमस्तदर्थमिति गाथार्थः ॥ ३९८ ॥ अथ विनयप्रकारानाह
लोगोवयारविणओ, अत्थे कामे भयम्मि मुक्खे य। विणओ पंचवियप्पो, अहिगारो मुक्खविणणं ॥ ३९९॥
व्याख्या - लोकानामुपचारो व्यवहारस्तत्र रूढो विनयो लोकोपचार विनयः, तद्यथा-वदुचितस्य कस्यचिद्रागच्छतोऽभ्यु स्थानं आसनप्रदानं विज्ञापनादावञ्जलबन्ध इत्यादि, तथा अर्थे ऽर्थविषये तत्प्राप्तिनिमित्तं विनयस्तद्यथा - अर्थलाभाकाङ्क्षया राजादीनां समीपेऽवस्थानं छन्दोऽनुवर्त्तनं अभ्युत्थानाखबिन्धासनप्रदानादि चेति । एतान्येव समीपस्थानादीनि कामिनां वेश्या