________________
मां त्यक्त्वा कथं शैलवेल स ग है। उततस्याः स्नेहवचने में दिनो जिनरक्षितः, तथा गृहीला नानोपायैर्विडम्बितो दुःखमागभवत् । जिन पालितः स्वगृहं प्राप्तो भोगान् सुक्त्वा श्रीवीरजिनान्तिके प्रवजिनोऽतिसुखभागभूत् । एवं अन्योऽपि विषय राहितो दुःखी स्यात् । अस्य चायमुपनयः - यथा रत्नद्वीपदेवी तथाऽविरतिः ; यथा लोभार्थिनो वणिजस्तथा सुखकामा जीवाः ; यथा तैर्भीतैर्डष्टः शूलीपुरुषस्तथा संसारभीता धर्मकथां पश्यन्तिः यथा तेन दुःखकारणं देवी उक्ता, तत शैलकपक्षाभिस्तर उक्तस्तथा धर्मकथा भव्यानामविरतिस्वभावं वक्ति सकलदुःखकारणरूपं, शैलकपृष्टोपमं चरणं वाञ्छित देश सुखहेतुः यथा पुनस्तरणीपसमुद्रस्तथा संसारः; यथा स्वगृहगमनं तथा निर्माणमिति बन्धुयुग्मकथानकं समाप्तम् ॥ अथ देवासान्तामाहआहारगंधमला - इएहिं सुअलंकिओ सुपुट्ठो वि । देहो न सुई न थिरो, विहडइ सहसा कुमित्तोव्व ॥ ३९०॥
:
व्याख्या- - भोजनगन्धपुष्पदामादिभिरलङ्कतः सुपुष्टोऽप्यभ्यङ्गादिभिर्देहो न शुचिर्नापि स्थिरः, किन्तु विघटते सहसा कृमित्रमिवेति गाथार्थः ॥ ३५ ॥ अथोपसंहरन् पुनर्मनुष्येषु सहेतुकं सुखामात्रमाह
तम्हा दारिद्दजरा - परपरिभवरोगसोगतवियाणं । मणुयाण वि नत्थि सुहं, दविणपिवासाइनडियाणं ॥ ३९९ ॥ व्याख्या - तस्माद्दारिद्रयजरापरपरिभवरोगशोकतप्तानां द्रव्यतृष्णादिनटितानां मनुष्याणामपि सुखं नास्तीति गाथार्थः । ननु न सर्वोऽपि संसारः सुखरहितः सुराणां रत्नमय प्रासादनिवासादिमहा सुखस्य प्रतीतत्वाद, सत्यं तच्चतस्तेष्वपि सुखाभाव एवेति दर्शयन्नुपसंहारमाह