________________
पावतेन पूर्वमभ्रात्रा वित्रेण विचित्रवचनोक्तिभिर्बोध्यमानोऽपि न कथमन्यसौ प्रतिबुद्धः पर्वते परिक्षीणपुण्पोइयेन प्रकृतिकब्राह्मणमात्र नियुक्तगोपालाकर्षितनेत्रो रौद्रध्यानोपगतश्च त्वा सप्तमपृथिव्याम प्रतिष्ठाननरकावासे समुत्पन्नो, व्यासार्थ चित्रसम्भूतीयाध्ययनादवसेयः । यदीत्थं चुलन्यपि तस्य मारणाय को मातृप्रेम्ण प्रतिबन्धः ? इति : चुलनीकथा समाप्ता ॥ अथ कनकरथ [नृप] कथानकं कथ्यते-तेतलिपुरे नगरे राजा कनकरथः, सकलान्तःपुरप्रधाना तजाया पद्मावती, तन्मन्त्री तलनामा राज्यचिन्तां करोति । अन्यदा राज्यसुखतृषितेन राज्ञा विविषयातनाभिताः खसुता वर्द्धमाना मे राज्यं हरिष्यन्ती'त्यभिप्रायेण सर्वे मारिताः । तवस्तेतलित मन्त्रिणाऽन्यदा 'पद्मावत्या अथ दारिका जाता, साऽपि मृतेति व्याजेन कनकध्वस्तत्सुतः स्वगृहे निधाय रक्षितः, स च कनकरथे मृते राज्येऽभिषिक्त इति । इह यदीत्थं कनकरथोऽपि पुत्राणां व्यापाद कीऽजनि ततः कः पण प्रतिबन्धः १, इति कनकरथकथा समाप्ता ॥
अथ भरताख्यानकमुच्यते श्रीऋषभदेवपुत्रौ मरतबाहुबलिनौ, राज्यार्थे द्वावपि भ्रातरौ युद्धाय प्रवृत्ती, स्त्राददृष्टियुद्ध ततो वाग्युद्धं ततोsपि बाहुयुद्धं तो मुष्टियुद्धं ततो दण्डयुद्धं जाते, किन्तु सर्वत्र बाहुबली जयति भरतो हारयति । ततः स विषण्णश्विन्तयति-किमेष चक्री ? मम निष्फलप्रयासः १ साता देवताऽधिष्ठितं चक्ररत्नं स्फुरद भरतकरतले समागत्योपविष्टं, ततः स चक्रेण बाहुबलिनं हन्तुं प्रधावितः। वाद्वाहुबली चिन्तयति - चक्रेण सममेवेनं चूर्णयामि । अथवा दण्डयुद्धे प्रारब्धे चक्रेणो-. पस्थित एषः, ततो अष्टप्रतिशोऽयं स्वयं मृतो बकः, तुच्छानां कामभोगानां कार्ये यद्यसौ मूढात्मा अलजित एवं करोति, तथापि न मे युज्यते बान्धवः कर्तु ततः प्राह-चक्रेण सममपि त्वां चूर्मपामि परं कोका मणिष्यन्ति - श्री ऋषभस्त एवमकृत्यं कृतवान्,