________________
योज्यते, सतश्च विभक्तिव्यत्ययादयमों-दृष्टिषु-शाक्यादिकप्रवचनरूपास्वनुरागो दृष्टयनुरागः प्रथमः । स्नेहः-सुतवान्धवादिषु प्रतिबन्धस्तपोऽनुरामः स्नेहानुरागो द्वितीयः । विषयेषु शन्दादिषु प्रतिबन्धो-गाय, तद्रूपोऽनुरागो विषयानुरागस्तृतीयः । अस्मिश्च त्रिविधे रागे द्वेषेण सहेति चतुर्थे द्वेष लक्ष्मीधरादयश्चत्वारोऽपि क्रमेणोदाहरणानि, तद्यथा-विन्ध्यपुरे वरुणश्रेष्ठी, तस्य श्रीकान्ता-विजयानाम्न्यौ द्वे भार्ये । श्रीकान्तायां लक्ष्मीधर-सुन्दर-अर्हद्दत्तनामानवयः सुता जाताः, विजयायां नन्दनामा नन्दनोऽभूत् । तत्कुटुम्नं जिनधर्मभावितं । पुत्रा चर्द्धिताः, पित्रा परिणायिताः। इतश्चानादिभवपुरे मोहनृपः स्वास्थानसंस्थः चिन्तापरो यावसातस्ताववष्टिराग-स्नेहराग-कामराग-द्वेषगजनामानश्रत्वारोऽपि पुत्रा आगत्य प्राहातात! काते चिन्ताऽस्मासु सत्सु, मोहः प्राह हे वत्साः ! वैरी चारित्रधर्मराजस्तेन वरुणश्रेष्ठिकुटुम्ब वासितम् । तत्र चत्वारोऽपि श्रेष्ठिसुता अद्यापि सम्यग्वासिता न सन्ति, अवसरोऽयमात्मना । तच्छ्रुत्वा चत्वारोऽपि मोहसुता धारिताः, मेलितो दृष्टिरागेण लक्ष्मीधरस्य त्रिदण्डी,तेनावर्जितो मन्त्रतन्त्रादिभिः कुमारः प्रथमः । स्नेहरागेण सञ्जातपुत्रस्य सुन्दरस्य कारितः पुत्रलालनादिव्यापारस्त्यक्तधर्मकृत्यो जातो द्वितीयः कुमारः । विषयरागेणार्हद्दत्तस्य भार्यावशित्वे कारिते तद्वचसा पातितो महाचिन्तायां, जातो धर्मपराङ्मुखस्तृतीयोऽपि कुमारः। द्वेषगजेन नन्दस्य शिक्षित कलहकरणं पित्रादिष्वपि, कारितं दुर्भाध्य भाषणं, त्याजितो जिनधर्मपरिणामाचतुर्थोऽपि कुमार : । ततो वरुणश्रेष्ठी सुतान् धर्मविमुखान वीक्ष्य दुःखितः साधूनां पार्थे प्रव्रज्य मुगतिभागभवत् । सुता रागद्वेषैाप्ताश्चत्वारोऽपि मारणान्तिकं दुःखं प्राप्ताः दुर्गतिध्वनन्तं भवं भ्रमिष्यन्ति, प्राप्स्वन्त्यनन्तानि दुःखानि, तानि च केनापि सर्वायुष्केण वक्तुं न पार्यन्त इति ।
"ता जाणिऊण एयं, अप्पमत्ता निजिणेह पोवि इमे। रागहोसे दुनय-सत्तू अइविरसपरिणामे ॥ ९॥"
--