________________
विरतिं न लभते, पूर्वप्रतिपनामपि च तां त्यजत्येवेति । तृतीयानां तु प्रत्याख्यानावरणकषायाणामुदये चारित्रं न लभते, लब्धमपि | चोज्यतीति। सज्ज्वलनानां चतुर्थकषायाणामुदये लम्धस्यापि चारित्रस्य मालिन्यहेतवो वितथाचरणरूपाः सर्वेऽपि-मलोत्सरगुणविषया Aअतिचारा भवन्ति । सम्वलनोदये यथाख्यातचारित्रं तावत्सर्वथैव न लभते, शेषस्यापि सामायिकादिचारित्रचतुष्टयस्य मालि
न्यजनकत्वेन देशवातिन एते इति भावः । तर्हि कथं शेषचारित्रस्य सर्वधातः १ इत्याह-द्वादशानां पुनरनन्तानुबन्ध्यप्रत्याख्यानावरणप्रत्याख्यानावरणरूपाणां कपायाणां प्रत्येकं समुदितानां वा उदये, मूलेन-अष्टमप्रायश्चितविशेषेण छिद्यते ऽपनीयते यद्दोषजालं तन्मूलच्छेद्यं भवति, अशेषचारित्रघातकं दोषजातं तदुदये समक्ष इति भाषावार्थः ।। ५६२-६३ ॥
अथ कपायनिग्रहानिग्रहफलस्य व्यक्तितो भणितुमशक्यत्वात्सामान्यतस्तदाह---- जंपिच्छसि जियलोए, चउगइसंसारसंभवं दुक्खं । तं जाण कसायफल, सोक्खं युण तजयस्त फलं ॥३१॥
व्याख्या-यजीवलोके चतुर्गतिसंसारसम्भवं दुःखं प्रेक्षसे तत्कपायफलं जानीहि, सौख्यं पुनस्तजयस्य-कषायजयस्य फल-| || मिति गाथार्थः ॥ ३१४ ॥ यद्येवं तर्हि कि विधेयं कह परमार्थः ? इत्याह
तंवरधुं मुत्तव्यं, जं पइ उप्पजए कसायऽग्गी । तं वत्थु चित्तव्यं, जत्थोक्समो कसायाणं ॥३१५॥ एसो सो परमत्थो, एयं तत्तं तिलोयसारमिण। सयलदुहकारणाणं, विणिग्गही कसायाणं ॥ ३१६ ॥
व्याख्या-तद्वस्तु मोक्तव्यं, यत्प्रति-यद्वस्त्वाश्रित्योत्पद्यते कषायाग्निः । तद्वस्तु प्राध, यत्रोपशमः कषायाणां । एष स परमार्थः, एतत्तत्त्वं त्रैलोक्यसारमेतत्, सकलदुःखकारणानां विनिग्रहो यत्कषायाणामिति गाथाद्वयार्थः ॥ ३१५-१६ ॥