________________
| राज्ञः पार्थात्पश्चशतं पात्राणां सर्वालङ्कारप्रवराणां राजपुरुषाणां प्राप्य आषाढथतिः स्वयं भरतीभूय पश्चश्तपात्रेस्समं तबाटकं नाट | यति, यथा भरतक्षेत्रं साधितं, यथा निधयः प्राप्ताः, यथा द्वादशवर्षाणि राज्याभिषेकः, यथा च भुक्ताः कामभोगाः, यथा च राज्य
पालयति श्रीभरतस्तथा तेन साभिनयं सर्वमपि सत्यचितेन नाटयता नृपतिः प्रवरनाटकरसेन तथा प्रतोष नीतस्सपरिजनः, यथै5 तस्य भुकुटाद्यलङ्कारो दत्तः, शेषजनाभरणैश्च तत्र कनकस्तूपो जातः । तत आषाढभूतिः श्रीभरतनृप इद प्रविष्ट आदर्शगृहे, मुद्रा
पतनादिक्रमेण पञ्चशतपात्रैस्समं गृहीतश्रमणलिङ्गः पश्चमौष्टिक लोच कृत्वा नृपं धर्म लाभयित्वा निर्गतः, ततो हा हा ! ! किमत| दिति भणन्नपप्रभृतिलोको बाहौ लगित्वा निवर्तयति तं, आषाढभूतिभणति-यदि भरतो दीक्षां गृहीत्वाऽपि विनिवृत्तस्तर्हि मामपि निवर्सयत, मुञ्चतान्यथा असद्ग्रहं । ततो भावं ज्ञात्वा मुक्तः । शेषाणां पञ्चश्तराजपुरुषाणां लज्जया कुलाभिमानेन दीक्षाममुश्चत भावतोऽपि परिणता । आषाढभूतिरपि आलोच्य प्रतिक्रम्य उग्रं तपः कृत्वा प्राप्तकेवला सिद्धः। केचित्पुनरेवमाहुः-श्रीभरत हवादर्शगहे प्रविष्टः श्रीआषाढभूतिरड्-गुलीयकरत्नपातात्तथैव भरतवन्दुरिभावनया लब्धकेवलालोको गहीतद्रव्यलिङ्गो राजादीन् सम्बोध्य पात्रीकृतराजसुतपञ्चशत्याः प्रदत्तवतो भव्यलोकमबोधयत् । अथ कुसुमपुरेऽप्यस्मिन्नाटके नर्तिते प्रद्रजितो बहुजनः, ततो नागर| स्तदग्धं । आपाढभूतितुल्याकियन्तो भविष्यन्तिीतस्मात्प्रथममेवाहारादिषु लोभो न कार्य।इति लोभे आषाढभूतिकथा समाप्ता।
तदेवं चतुर्णामपि कषायाणां प्रत्येकं विपाकमभिधायाथ समुदितानां तमाह---- सामन्नमणुचरंतस्स, कसाया जस्स उकडा हुंति। मन्नामि उच्छपुप्फंव, निरस्थयं तस्स सामन्नं ॥३०९॥
व्याख्या-श्रामण्यं चारित्रमनुचरतो यस्य कषायाः क्रोधादय उत्कटा भवन्ति, तस्य श्रामण्यमिक्षुपुष्पमिव निरर्थकं मन्ये