________________
तेन पुनराकारितस्साधुमद के तस्थालैः प्रतिलाभितः, पुनर्भणितश्च स्वयेह प्रतिदिनं मोदकार्थ समेतव्यमिति श्रुत्वा निर्गतः । तदनु भार्यां प्रत्युक्तं - एक सादिकादिना प्रतिलाभ्यः, निजपुत्र्योः प्रत्युक्तं च- सानुकूलोपचारैरेनं वशीकुरुत । ततस्ताभ्यां मुदा शृङ्गारहावभावादिभिस्तस्य तस्तथा भिनं यथा नष्टः कुलाभिमानः विस्मृतस्सुगुरुवाङ्मन्त्रः सञ्जातो निखप उदितं चरणावरणं कर्म तस्य, ततः सोऽपि परिहासादिक प्रवृत्तः, प्रतिपद्य विवाहादि उपश्रीआचार्य गतो, भणितो निजपरिणाम विशेषस्ततो गुरुराह -
1
"उत्तम कुन्भवाणं विवेयरयणायराण होऊणं । इहपरलोयविरुद्धं, किं जुषं ? एरिसें काउं ॥ १॥" "दीहरसीलं परिपालिऊण विसएसु वच्छ मा रमसु । को गोपयम्मि बुड्डइ?, जलहिं तरिऊण वाहाहिं ॥२॥ ॥ ततः क्षुल्लकेोक्तं एतत्सत्यमेव परं प्रवज्यां कर्त्तमहं न तरामि साम्प्रतं । लिङ्गं मुक्त्वा वसतेर्निर्गतो नटगृहं प्राप्तो, नटेन स्वसुते तस्मै परिणाति, उक्ते चायं धर्मानुरक्त उत्तमप्रकृतिः सत्पुरुषस्ततो युवाभ्यामप्रमत्ताभ्यां शुचिभूताभ्यां उपचरणीयः, यथा वैराग्यं न गच्छति। एवं पञ्चविधविषयसुखमनुभवतः कालो धजति, अन्यदा राज्ञा दिवसे आषाढभूतिप्रमुखा नटा नाटक निरीक्षणार्थमा कारिताः, तस्मिन् प्रस्तावे नटवधूभिः क्षुलवधूभिस्सह मद्यं पीतं यथेच्छम्, ततस्ता विलुठितकेशकलापाः प्रसृतदुर्गन्धा जाताः । ततो राजकुलादागतेन तेन तचेष्टितं वीक्षितम् । ततः प्राप्तवैराग्यरङ्गचिन्तयति- 'किं मयेदं विलसितं ?, चारित्रचिन्तामणिवृथैव हारित एतयोः कृते' इत्यादि, ततो निर्गच्छन् गेहाभटेन दृष्टचेष्टितैज्ञतो विरक्तचिसोऽसाविति । तेन पुग्यौ भणिते आः पापे ! किं युवाम्यां विलसितम् १, मर्त्ता चारित्रा जतीत्युक्ते विगलितमदे पतिपादमूले निपत्य वदतः क्षमस्वापराधं, एहि गेहूं, नो चेदाजीविकां दत्वा व्रज । ततस्रात्रेण निर्मितं भरतच क्रिचरित्रप्रतिबद्ध नाटकं, ततो राज्ञे निवेदितं नटैः राज्ञोक्तं तच्छीघ्रं मत्पुरतो नाटयन्तु ततो नटेन