________________
मानसेन दुष्कृतं प्रारब्धमिति भावयतः समुत्पेदे जातिस्मरणं, ज्ञातं च पूर्वभवे पश्वशतसाधुमध्ये श्रामण्यं सुरलोकगमनं च । ततो ज्ञातभवपरमार्थो दीक्षां प्रपेदे देणे देवाः उपधर्मदः किमेतदिति राज्ञा पृष्टे इदमेवालोचितं, सन्तोपजलेन तृष्णाग्निरुपशामितः, धर्मोपदेशप्रदानेन सर्वोऽपि राजलोकः प्रबोधितः । ततो नवकल्पविहारेण विहरन् उग्रं तपःकर्म समाचरन् स्वयम्बुद्धः कपिलः पष्ठे मासे केवललक्ष्मीं पर्यवपीत्, तस्मिन् समये पूर्वभवसम्बन्धिनं साधुशतपञ्चकं मृत्वा स्वर्गसुखमनुभूय राजगृहासभाटविषु सञ्जातकिरातसमूहं वीक्ष्य प्रतिबाधितुं जगाम । तस्करै सेनापतिसमीपं धृत्वा नीतः स ऋषिस्ततस्ते नर्तितुं लग्नाः, ऋषि:- ''अधुवेसासयम्मि, [संसारम्मि दुक्खपउराए । किं नाम हौज तं कम्मी, जेणाहं दुग्गई न गच्छा ||९|| " उतरा० ८ अ०] "संयुज्झह मा विमुज्झह, [संयोही पुणरावि दुलहा । नो वणमंति राइओ, नो सुलभं पुणरावि जीवि || ९ ||" सूत्रकृ० वेतालीयाध्ययन ] इत्यादिधुवकान् कथयामास सर्वेऽपि ते प्रतिबोधिता दीक्षां प्रतिपद्य क्रमेण मोक्षं यास्यन्ति एवमन्यानपि जन्तून् प्रबोध्य कपिलः केवली सिद्धि प्राप । इति कपिलकेबलीकथा समाप्ता ॥
अथ क्षुल्लककोच्यते - राजगृहे नगरे श्रीसिंहरथगजा राज्यं करोति, अन्यदा तत्र गुणशिले चैत्ये धर्मरुचिमूरयः समागतास्तच्छिष्य आषाढभूतिः सोऽन्यदा भिक्षार्थ व्रजन्नृपनटगेहे प्रविष्टः, तत्र को मोदको रसगन्धाढ्यः प्राप्तः तते निर्गत्याचिन्ति - एष तावद्गुरूणां भविता पुनरात्मनेऽन्यं याचयामीति चक्षुः काणीकृत्य पुनर्गतो, दत्तो मोदकश्चैकः पुनरेष उपाध्यायानां भवितेति मनसि निधाय कुब्जरूपं विधाय गतो, विहारितको मोदकः, एष सङ्घाटकसाधोर्भवितेति विचिन्त्य पश्चात्कुष्टिरूपं विधाय पुनर्गता, विहा रित्यादि क्षुल्लकचरित्रं प्रासादोपरि स्थितेन नटेन दृष्ट्वा चिन्तितं- एष सुन्दरो नटो भवति, केनाप्युपचारेण रक्ष्यः, लब्धोपायेन