________________
व्याख्या-साम्प्रत तावदुष्पमासमानुभावाद्गुणलब एव कश्चित्प्राप्यते, न तु सम्पूर्णः कोऽपि ज्ञानादिको गुणः, सोऽपि || च बहुभिः क्रोधादिभिदोषः सङ्घलो-व्याप्तः, ततस्तस्मिन्नपि बहुदोषसहकुले गुणलवमाने सति को नाम सविवेकः सन् गर्वितो | भवेत् १, न ऋश्चिदिति भावः। किं कृत्वा ? इत्याह-पूर्वपुरुषाणां-तीर्थकरगणधरचक्रवादीनां विगतदोष गुण निवह अनन्त|| ज्ञानेश्वर्यादिरूपं श्रुत्वा । अयम्मावः-मात्सर्यादिदोपलेशेनाध्यकलङ्कितान् प्रत्येकमनन्तान पूर्वपुरुषाणां ज्ञानेश्वर्यादिगुणान् श्रुत्वाऽनेक| दोपकलङ्किते गुणलवे गर्यस्य कोऽवकाशः ?, इति गाथार्थः ॥ २९७॥
विमविना गुणिना च विशेषरतः) एवाहङ्कारो न कर्तव्य इत्याह-- . माहेइ दोसायो, मुमोच्य महोइ मच्छरुत्तिण्णो। विहवीसुतह गुणीसु य, इमेइ ठिओअहंकारो॥९॥
___व्याख्या-पायो दोषाभावोऽपि यदि मत्सरोसीणों भवति, अहङ्कारमिश्रितो न भवति, तर्हि गुणवच्छोभत एव, || अहङ्कारः पुनर्विभविषु गुणिषु च स्थितो दूनोति-शिष्टजनस्य महतीं मनोबाधां जनयति, अन्येनाप्यहङ्कारो न कर्तव्यो, विशेषतो | | विभविना गुणवता चेति भाव इति गाथार्थः ॥ २९८ ॥ अथ दृष्टान्नद्वारेण मानवियाकमाह-- जाइमएणिक्केण वि, पत्तो झुंघातणं दियवरो वि । सबमएहिं कहं पुण, होहिंति ? न सव्वगुणहीणा ॥२९९॥
व्याख्या---एकेनापि जातिमदेन हेतुभूतेन द्विजवरोऽपि-पुरोहितपुत्रोऽपि डुम्बत्वं जन्मान्तरे प्राप्तः, ततः सर्वैत्यादि|| विषयैर्मदैः क्रियमाणैः कथं पुनस्तैः सर्वैरपि सुकुलोत्पत्त्यादिगुणहीना न भविष्यन्ति ?, अपि तु भविष्यन्त्येवेत्यक्षरार्थः ॥ २९९ ॥
अथ कथ द्विजवरेण डुम्बत्वं प्राप्तमित्युच्यते-गजपुर(वरे) पुरे सोमदत्ताभिधपुर धसः पुत्रो ब्रह्मदेवनामा सर्वविद्यागृहमपि ।