________________
PURI
प्रासुकाहार, मास्माकं दृष्टिविषेण प्राणिघातो भूयादिति । स तु विलेsपि अधोमुखः कृतानशन स्तिष्ठति । इतश्च वसन्तपुरेऽरिदमननृपतेः सुतः सर्पेण दष्टो मृतः, ततः कुपितो भूप भुजङ्गान् स्वयमन्यैश्व मारयति, यो यः स हत्वा शिरो राज्ञः समर्पयति तस्य दीनारमर्पयति । अन्यदेको गारुडिको मन्त्रौषधैर्बिलात् सर्पाभिष्कास्य शिरो गृहस्तं सर्प निष्कासयति सोऽपि धर्मबुद्धधाsatमुखः पुच्छेन निर्गच्छति, तावत्स गारुडिको निर्गतं निर्गतं निति, ततो दृढं दुःखे उत्पद्यमाने भुजङ्गः सम्यक् संवेगात्सहते । एवं सोऽपि गारुडिन हतः, सर्वेऽपि नृपस्य दर्शिताः, लब्धमुचितं द्रव्यं । अत्रान्तरे भूपः केनापि नागदेवेन पुत्रस्ते भविष्यतीसवर्तितः, तदा च स भुजङ्गो मृत्वा तत्पुत्रत्वेनोत्पन्नस्तस्य नागदत्त इति नाम कृतम् । स च रूपादिगुणाकरोऽपि धर्ममेव पुरुषार्थं मन्यमानः साधूनुपास्ते । अन्यदा सञ्जातजातिस्मृतिः चित्रविरिणः प्रवजितः पालयति निष्कलङ्कं चारित्रं, केवलं क्षुधा बहुस्ततो द्वित्रिर्भुङ्क्ते निरवद्यमाहारं, ततः कूरगइयक' इति प्रसिद्धाख्योऽजनि । तस्मिंश्च गच्छे चत्वार एकद्वित्रिचतुर्मासिकाः क्षपकाः सन्ति तान् दृष्ट्वा चिन्तयति सफलमेतेषां जीवितं, ये कर्मशैलकुलिशमेवं तपः कुर्वन्ति, अहं पुनर्मन्दभाग्यो, यः प्रत्यहं बहुवारमाहारं गृण्हामि, इति भावनाशुद्धमना वैयावृश्येनापि महती निर्जरा इति विचिन्त्य क्षपकानां वैयावृत्याभिग्रहं गृहीतवान् । अन्यदा क्षपकानतिक्रम्य देवतया स एव प्रणतः साधुः, ततो निवर्तमाना सा चातुर्मासिकक्षपकेन कोपेन rare धृता भणितापाये कटपूतने । किमिह प्राप्ताऽसि १ यन्महाक्षपकालुल्लङ्घ्य त्रिकालभोजिनं वन्दसे, ततो देवतयोक्तं तपस्विन् ! मा कुरु अकार्ये कोपं, भावक्षपकं वन्दे, न द्रव्यक्षपकं । जानीथ यूयं स्वयमेव यादृशी आत्मनो द्रव्य क्षपकता सुलभाऽनन्तशः प्राप्ता च । एष त्रिकालं भुङ्क्ते इति यद्भणसि स मत्सरः ईदृशानां नित्यमुपवास एव यदुक्तं