________________
T
SCRESS
| कर्पासपाण्डुरदेहा क्षीणाही जाता । ततो देवात्कथमप्यत्रागतेन ज्येष्ठेन तद्धन्धुनासौ दृष्टा प्रत्यभिज्ञाता, कथञ्चिन्नीता स्वगेहं. यदेवं तया पदे पदे दुःखं अज्ञानकोपकरणादनुभूतं, ततः संविग्ना साध्वीना पार्श्व धर्म श्रुत्वा ब्रह्मवतं प्रतिपद्य मार्यमाणाऽप्यह कस्थाप्युगरि कोपं न करिष्ये इति घोरमभिग्रह गृहीत्वा तिष्ठति । अन्यदा तस्याः शरीरबलकरणव्रणरोधनार्थ लक्षपाकतैलघटत्रय कृतं, ततैलार्थ च मुनयोज्यदा तवागताः, अचङ्कारितभडिकया दास्याः सकाशाद्धट आनायितः, अत्रान्तरे शक्रेणाचकारित| मट्टिकायाः क्षमादृढत्वं प्रशंसितम् । तदैको देवोऽसहमानस्तदा तत्रागत्य दास्या हस्तात्तैलघटं स्फोटयतिस्म, द्वितीय आनायित सोऽपि स्फोटित: सुरेण, अथ प्रशस्तभावा स्वयं गत्वा तृतीयं घटमानीय साधुभ्यस्तैलं दत्वा हृष्टा । ततः सुरः प्रत्यक्षीभूय स्तुत्वा स्वर्ग गतः, साधवोऽपि स्वोपाश्रयं गताः । इतराऽपि गतगर्वा श्रावकधर्म पालयित्वा स्वर्ग गता। एवं कोपेन दुःखं प्राप्ता क्षमया पुनरसौ सुरैर्नता, इति अचङ्कारितभट्टिकाकथासमाप्ता ॥
अथ क्षुल्लककथोच्यते-क्वापि गच्छे मासक्षपकः साधुरासीत् , अन्यदा मास[क्षपण]पारणके भिक्षायां क्षुल्लकेन सर बजता तेन प्रमादान्मण्डूकी चम्पिता मृता। ततः क्षुल्लकेनोक्त-महर्षे ! एपा त्वया पादेन चम्पिता, ततः क्रुद्धः क्षपका पूर्व । मृतास्ता दर्शयन् प्राह--रे रे दुष्ट ! किमेषाऽपि मया हता?, अन्या अपि कि मया हता ?, ततो भावं प्रात्या क्षुल्लकस्तूष्णीक स्थितः, अथाऽऽवश्यककाले स्वस्थावस्थं क्षपर प्रत्याह क्षुल्लम-'मण्डकीमालोचय महर्षे ।। ततोऽधिकं ज्वलितकोपानल क्षुल्लकाभिमुखं धावन् क्रोधान्धः स्तम्भे आम्फाल्य मर्मप्रदेशे स्फुटितशिरो मृत्वोत्पन्नो ज्योतिष्फेषु, ततयुत्ता [उत्पन्नः क्वाप्य रण्ये दृष्टिविषयुतानां पूर्वभवविराधितश्रामण्यानां भुजङ्गानां कुले. जातिस्मृतिश्चैपामस्तीति ते सर्वे च रात्री भ्रमन्ति, भुञ्जते २
NAMES