SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ KI 'कूरगट्टयक इति प्रसिद्धः, ताबदुदाहरण, कथम्भूनोऽयम् ? इत्याह-पूर्व कोपेन दुःख प्राप्तः, पश्चात्तु विहितया क्षमया प्रणतः | सुरैरपि मोक्ष च गतः, अचङ्कारितभडिकाऽपि कथम्भूता ? पूर्व कोपेन दुःखं प्राप्ता, पश्चातु विहितया क्षमया मुरैरपि FPI प्रणतेत्यावृत्या योज्यते, का पुनरसावित्युच्यते उज्जयिन्यां धनश्रेष्ठी, कमलश्री भार्या, तयाऽष्टपुत्रोपरि सुता प्रसूता भडिकेति नाम्नी, श्रेष्ठिनाऽभाणि-नैया केनापि मत्सुता चङ्कारयितव्येति लोकेऽचङ्कारितभट्टिकेति प्रसिद्धा, प्राप्तयौवना परिणयनार्थ अनेकांच्यमानाऽपि श्रेष्ठिना न दीयते, | भगति य एतस्या आज्ञावचनं नित्यमेव सपरिजनो न खण्डयति तस्य ददामि, नान्यस्य । ततः सुबुद्धिनाऽमात्येन कामातुरेण तत्तथा प्रतिपद्य महाविभूत्या परिणीता, नीता निजगृहं । स तदाबया वर्तमानो भोगान भुक्ते । अन्यदा तया भणितो, यथाअलमिते सूर्य क्षणमपि न बहिः स्थेयं, गृहमागन्तव्यं, तथैव नित्यं करोति । अन्यदा राजा ज्ञाततद्भार्यावृत्तान्ते कौतुकेन कार्यच्छलेनामात्यो धृतः। अर्द्धरात्रिसमये विसृष्टो गृहं गतः, तावत् दृढजटितकषादसम्पुटवासगृहस्थिता नानोक्तिभिर्भाषिताऽपि न कपाटमुद्घाटयति सा, ततः कटुवचनोक्ती झगित्येव कपाट मुद्घाट्यामात्यस्य दृष्टिं वञ्चयित्वा निर्गता पितगृहं प्रति, मार्गे चौर हीता, विलपन्ती मुखे वस्त्रपिण्डं दत्वा नीता नगराबहिः, गृहीतानि कोटिमूल्यान्याभरणानि, ततः पल्ल्यां नीत्वा विजयनाम्नी निजाधिपतेर्दत्ता, तेनापि सृष्टेन चौराणां बहुधन दर्स, समयेऽनेकप्रकारैः पल्लिपतिना प्रार्थिताऽपि सर्वथा तं नेच्छति, ततः कुपितेन बाढं ताडिता, कण्ठगतप्राणाऽपि यावन्नेच्छति तावद्विक्रीता एकस्य सार्थवाहस्य हस्ते बहुद्रविणेन । सोऽपि प्रार्थयतेऽनुकूलैः प्रतिकूलैश्वोपायैः, यावश्रेच्छति तावद्विक्रीता पार्श्वकूले कम्बलवणिजो दत्ता, सोऽपि तथैव प्रार्थय , तत एषा
SR No.090390
Book TitlePushpamalaprakaranam
Original Sutra AuthorHemchandracharya
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy