________________
धमत्थकामभोगाण, हारणं कारणं दुहसयाणं । मा कुणसु कयभवोहं, कोहं जड़ जिणमयं मुणसि ॥ २८८
व्याख्या - धरति दुर्गतिपतन्तं प्राणिनमिति धर्मों जीवदयादिः, अर्थ्य [ अर्थ्य]त इत्यर्थो - घनं काम्यन्त इति कामाः शब्दादयः, सुज्यन्त इति भोगाः स्पर्शादयस्तेषां दारण-नाशनं दुःखशतानां च कारणं - साधनं, तथा कृतो भवधः - संसारप्रवाही येन स तथा तं एवंविधं क्रोधं मा कुरुव, यदि जिनमतं जानासि ? " ज्ञोर्जाणणी" इति [ हैमप्रा० ९४-७] गुणादेश इति गाथार्थः ॥ २८८ ॥ किश्व
इह लोए चिय कोवो, सरीरसंतावकलहवेराई | कुणइ पुणो परलोए, नरगाइसु दारुणं दुक्खं ॥ २८९ ॥
व्याख्या - इह लोके एवास्मिन् भवे एव तावत्कोपः शरीरसन्तापकलहवैराणि प्रसिद्धानि करोति, धातूनामनेकार्थवाज्जनयति परलोकेऽन्यभवे पुनर्नरकादिषु दारुणं - असयं दुःखं जनयतीति गाथार्थः ॥ २८९ ॥ अथ व्यतिरेकमाहखंती सुहाण मूलं, मूलं धमस्स उत्तम खंती । हरइ महाविज्जा इव, खंती दुरियाई सयलाई ॥ २९०॥ व्याख्या क्षान्तिः सर्वेषां सुखानां मूलं - मुख्यमुत्पत्तिनिबन्धनं स्थानमिति यावत्, तथोत्तमा क्षान्तिर्धर्मस्य मूलं, स्फुरत्प्रभावा महाविद्येव क्षान्तिः सकलानि दुरितानि हरतीति गाथार्थः ॥ २९० ॥
इह च को क्षमायां च दोषगुणदर्शनपरं दृष्टान्तद्वय माह
hanaमाए विअ - चकारियखुड्डुओ य आहरणं । कोवेण दुहं पत्तो, खमाए नामओ सुरेहिं पि ॥ २९९ ॥ व्याख्या -- कोपे क्षमायां च एकदेशे समुदायस्य गम्यमानत्वात् अचङ्कारितभट्टिका तथा क्षुल्लकच नागदत्ताभिधानः
,