________________
mmmmmmmm
जलेरणुपुढे विपढ्बय-राईसरिसो चउठिवहो कोहो। तिणिसलयाकटुंद्वियं-सेलॅत्थंभोवमो माणो ॥२८२॥ मायाऽवलेहिगोमुत्ति-मिसिंगघणसिमलसमा। लोहो हलिइखंजण-कदमकिमिरागसामाणो ॥२८३॥
__ व्याख्या-प्रथमा प्रत्येक राजिशब्दसम्बन्धाञ्जलराजिसमानः सज्वलनः क्रोधः, यथा जले रेखा क्रियमाणा शीघ्रमेव निवर्सते, तथा यः कथमप्युत्पन्नोऽपि सत्वरमेव व्यावर्चते स सञ्चलनः क्रोध इत्यर्थः, रेणुरेखातुल्यस्तु प्रत्याख्यानावरणः, अयं हि रेणुमध्यविहितरेखावधिरेण निवर्तत इति भावः, पृथ्वीराजिसमानोऽप्रत्याख्यानावरणः, यथा स्फुटितपृथ्वीसम्बन्धिनी रेखा कनवरादिभिः पूरिता कप्टेनापनीयते, एवमेषोऽपीति भावः, विदलितपर्वतरेखातुल्यस्त्वनन्तानुबन्धी, कथमपि निवर्तयितुं न शक्यत इत्यर्थः, इति चतुर्विधः क्रोधः। मानस्तु तिनिसो-वनस्पतिविशेषस्तस्य लतोपमा सुखेनैव नमनीयः सज्वलनः, काष्ठोपमा प्रत्याख्यानावरणो मानः, यथाऽग्निस्वेशादिभिः कष्टेन काष्ठं नमति तथाध्यमपीति भावः, अस्थि-हडूं, तदुपमः कष्टतरनमनीयोऽप्रत्याख्यानावरणो मानः, शिलायो घटितः शैला, स चासौ स्तम्भश्च शैलस्तम्भस्तदुपमस्त्वनन्तानुबन्धी मानः, कथमप्यनमनीय इत्यर्थः। माया पुनरुल्लिख्यमानानां धनुरादीनां याऽवलेखिका वक्रत्वपा, तत्समाना मा सज्वलनीत्युच्यते, सुखेनैवार्जवमापादनीयेत्यर्थः, गोमूत्रिकासमाना किञ्चित्कष्टेनापनीया प्रत्याख्यानावरणी माया, एवं मेषशृङ्गोपमा कष्टतरनिवर्तनीया अप्रत्यख्यानावरणी माया, धनं-दृढं यवंशीभूल, तत्समाना त्वनन्तानुवन्धिनी, यथा निविडवंशीमूलस्य कुटिलता किल बहिनाऽपि न दह्यते, एवं या कुटिलता कथमपि न निवर्तते साऽनन्तानुबन्धिनी मायेत्यर्थः । लोभस्तु हरिद्रारागोषमः सुखनिवर्तनीयः + सकारस्य दीर्घ प्राकृत्वात् ।