________________
तस्मात्कारणाद्यथार्थनामानः कषायाः क्रोधादयो भभ्यन्ते । भवलाभ हेतवश्च गौणस्याऽपि स्युरित्याह- संसारकारणानां असंयमादीन मध्ये मूलं प्रधानं कारणं कपायाः, के ते? इत्याह-ते व क्रोधादयः, आदिशब्दान्मानमायालोभा इति माथार्थः ॥ २७९ 'मेदद्वारमभिधित्सुराह
कोहो माणो माया, लोभो चउरो वि होंति चउभेया । अणअपञ्चक्खाणा, पञ्चक्खाणा य संजलणा ॥ २८० व्याख्या - क्रोधादयश्चत्वारोऽपि प्रत्येकं चतुर्वेदा भवन्ति, सदेवाह - सूचनात्सूत्रस्यानन्तानुवन्धी क्रोधः, अप्रत्याख्या arart: क्रोधः, प्रत्याख्यानावरणः क्रोधः, सज्ज्वलनः क्रोध इति । एवं मानाद्यभिलापेनापि चत्वारो भेदाः प्रत्येकं वाच्य इति गाथार्थः ॥ २ ॥ जगत इषि का चन्दार्थः ? इत्याह
संति भवमणतं, ते (य)ण अणताणुबंधिणो भणिया । एवं सेसा वि इमं, तेसि सरूवं तु विनेयं ॥२८१
व्याख्या-ये कषाया उदयप्राप्ताः सन्तोऽनन्तं भवमनुबध्नन्ति - भ्रमणीयत्वेनावस्थापयन्ति ते. च) सम्यक्त्वमात्रस्यापि घातक अनन्तानुबन्धिनः क्रोधादयस्तीव्रतमा इत्यर्थः । एवं “ सेसा वि"त्ति यथाऽनन्तानुबन्धिनो व्युत्पादितास्तथा शेषा अपि व्युत्पादनीयाः तथाहि - नत्रोऽल्पार्थत्वादरूपं काकमांस विरत्यादिमात्रमपि प्रत्याख्यानमावृण्वन्ति ये ते अप्रत्याख्यानावरणाः क्रोधादयस्ती अंतर इत्यर्थः तथा ये प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्ति निवारयन्ति ते प्रत्याख्यानावरणाः क्रोधादयोऽद्यापि तीव्रा इत्यर्थः arround ये ज्वलयन्ति-क्षणमात्र मौदयिक भावमानयन्ति ते सज्ज्वलनाः क्रोधादयो मन्दतामापत्रा इत्यर्थः । अथैतेष किञ्चिद्विशेषं व्याचिरव्यासुराह - तेषां पुनरनन्तानुबन्ध्यादिक्रोधादीनामिदं पञ्चानुपूर्व्या वक्ष्यमाणं स्वरूपं विज्ञेयमिति गाथार्थः ।। २८१ ॥ किं पुनस्तदित्याह
६