SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ गणनया एक द्विध्यादिरूपतयाऽतीता-अतिक्रान्ता लोका भवन्ति पूर्णाः, नैकेनाप्याकाशप्रदेशेनहनाः परस्परं तुल्या- अन्यूनाधिकसङ्ख्याः । ननु त्रैलोक्यान्तर्वर्त्तिजीवादिपदार्थानामनन्तत्वेनानन्ता एव भवमोक्षयोर्हेतवो भवन्त्यतस्ते कथं असङ्ख्येथा इत्युक्तं ? सत्यं, यद्यपि जीवादयो मात्रा अनन्तास्तथापि तैः सर्वैरपि विसदृशान्यसङ्ख्येयान्येवाध्यवसायस्थानानि जन्यन्ते, नानन्तानि, तेभ्यः परसोन्याध्यवसायानां पूर्वाध्यवसायेष्येवान्तर्भावात्, अतस्तञ्जन्याध्यवसायस्थानानामसयेयत्वेनार्थी अप्युपचारादसंख्येयस्वेनोक्ता इत्यदोषः, अतः स्थितमेकाऽपि जीवोपमर्दादिका विराधना परिणामवैचित्र्येण कर्मबन्धहेतुस्तभिर्ज्जराहेतुश्च जायत इति गाथार्थः॥ अथ जीवादयोseः येषां बन्धहेतव येषां च मोक्षहेतवो भवन्ति, तदाह- इरियावहियाईया, जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव उ, जयाण निव्वाणगमणाय ॥२३९ ॥ व्याख्या - ईरणं ईर्या - गमनं तदुपलक्षितः पन्था ईर्ष्यापथ-गमनमार्गस्तत्र भवपिथिक - गमनागमनं च तदादियेषां भोजनशयनादीनां ते ऐयपथिकादयो भावा य एवायतानां - असंयतानां कर्मबन्धाय जायन्ते, त एव च यत्तानां संयमोद्योगपराणां पुनर्निर्वाणगमनाय भवन्तीति गाथार्थः ॥ २३९ ॥ एगंतेण निसेहो, जोगेसु न देसिओ विही बावि। दलियं पप्प निसेहो, होज्ज विही वावि जह रोगं ॥ २४०॥ व्याख्या -- योगेषु - गमनागमनभोजनादिषु तीर्थकरैरेकान्तेन निषेधो विधिर्वा न दर्शितः, किन्तु दलिकं जीवद्रव्यं 'प्राप्य' समाश्रित्य निषेध विधिर्वा भवेत् । दान्तमाह-यथा रोगे । इदमुक्तं भवति-य कथिद्वैद्योधा जरादावुत्पन्न कश्वित्पवनपीडित परिभाव्य तस्मिन् लङ्घनादिकं निषेधयति, स्निग्धोपचारादिकं त्वनुजानति, अन्यं तु तस्मिन्नेव ज्वरेऽजीर्णपूर्ण परिभाव्य व्यत्यय
SR No.090390
Book TitlePushpamalaprakaranam
Original Sutra AuthorHemchandracharya
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy