________________
गणनया एक द्विध्यादिरूपतयाऽतीता-अतिक्रान्ता लोका भवन्ति पूर्णाः, नैकेनाप्याकाशप्रदेशेनहनाः परस्परं तुल्या- अन्यूनाधिकसङ्ख्याः । ननु त्रैलोक्यान्तर्वर्त्तिजीवादिपदार्थानामनन्तत्वेनानन्ता एव भवमोक्षयोर्हेतवो भवन्त्यतस्ते कथं असङ्ख्येथा इत्युक्तं ? सत्यं, यद्यपि जीवादयो मात्रा अनन्तास्तथापि तैः सर्वैरपि विसदृशान्यसङ्ख्येयान्येवाध्यवसायस्थानानि जन्यन्ते, नानन्तानि, तेभ्यः परसोन्याध्यवसायानां पूर्वाध्यवसायेष्येवान्तर्भावात्, अतस्तञ्जन्याध्यवसायस्थानानामसयेयत्वेनार्थी अप्युपचारादसंख्येयस्वेनोक्ता इत्यदोषः, अतः स्थितमेकाऽपि जीवोपमर्दादिका विराधना परिणामवैचित्र्येण कर्मबन्धहेतुस्तभिर्ज्जराहेतुश्च जायत इति गाथार्थः॥
अथ जीवादयोseः येषां बन्धहेतव येषां च मोक्षहेतवो भवन्ति, तदाह-
इरियावहियाईया, जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव उ, जयाण निव्वाणगमणाय ॥२३९ ॥
व्याख्या - ईरणं ईर्या - गमनं तदुपलक्षितः पन्था ईर्ष्यापथ-गमनमार्गस्तत्र भवपिथिक - गमनागमनं च तदादियेषां भोजनशयनादीनां ते ऐयपथिकादयो भावा य एवायतानां - असंयतानां कर्मबन्धाय जायन्ते, त एव च यत्तानां संयमोद्योगपराणां पुनर्निर्वाणगमनाय भवन्तीति गाथार्थः ॥ २३९ ॥
एगंतेण निसेहो, जोगेसु न देसिओ विही बावि। दलियं पप्प निसेहो, होज्ज विही वावि जह रोगं ॥ २४०॥
व्याख्या -- योगेषु - गमनागमनभोजनादिषु तीर्थकरैरेकान्तेन निषेधो विधिर्वा न दर्शितः, किन्तु दलिकं जीवद्रव्यं 'प्राप्य' समाश्रित्य निषेध विधिर्वा भवेत् । दान्तमाह-यथा रोगे । इदमुक्तं भवति-य कथिद्वैद्योधा जरादावुत्पन्न कश्वित्पवनपीडित परिभाव्य तस्मिन् लङ्घनादिकं निषेधयति, स्निग्धोपचारादिकं त्वनुजानति, अन्यं तु तस्मिन्नेव ज्वरेऽजीर्णपूर्ण परिभाव्य व्यत्यय