________________
ननारम्भे कियमाणेऽधिकतरं तेषां तृप्याश्रमादयो जायन्ते, खनिते च तस्मिन् विपुलं शीतलं जलमासाद्य तेषामन्येषां च तृष्णाद्यपगमः सम्पद्यते, एवं द्रव्यस्तवे यद्यप्ययमो भवेत्तथापि कारितान् जिनगृहादीन् दृष्ट्वा तेषामन्येषां च स कोऽपि विशुद्धपरिणामो | भवेद्यो भूरिभवर्जितानि द्रव्यस्तवकृतानि च पापानि स्फेटयित्वा निर्वृतिं जनयति तस्मान्नित्यमारम्भप्रवृत्तानां श्रावकाणां बहुलाभहेतुत्वाद्रव्यस्तत्रो युक्तो, न पुनस्त्यक्तारम्भाणां भागस्तवलाभवतां मुनीनां निषिद्धत्वात्, निजमतिविकल्पितं पुनस्सर्वं भवहेतुरेवेत्यलम् । किं पुनस्तदालम्बनं ज्ञानादिवृद्धिहेतुः ? इत्याह--- काहं अछित्ति
अदुवा अहीहं, तत्रोविहाणेण य उज्जमिस्तं ।
गच्छेचनीईए (नई अइ ? ) सारइस्सं, सालंबसेवी समुवेइ मोक्खं ॥ २३३॥
व्याख्या -मां बिना तीर्थोच्छेदापत्तेस्तस्याव्यवच्छित्तिं करिष्यामि अथवा ज्ञानादिसाधकान् ग्रन्थानध्येष्ये, यदिवा तीव्रतपोविधानेन पुरस्तादुद्यमं करिष्यामि, अथवा मां विना गच्छेऽसमञ्जसापतेस्तं सिद्धान्तोक्तनीत्या सारयिष्यामि सन्मार्गे प्रवर्त्तयिष्ये, एवमावालम्बनेन सह वर्त्तत इति सालम्ब:- पुष्टालम्बनवान् एत्रम्भृतस्सन रोगाद्यापदं प्राप्तो यः साधुर्गीतार्थोऽनन्यतदपगमोपायः किमप्यनेपणीयमौषधादिकं सेवत इति सालम्ब सेवी । सच जिनाज्ञाऽनुल्लङ्घनान्मोक्षं समुपैति गच्छति, तस्मात्तीर्थाव्यवच्छेदादिकमेव यथोक्तं ज्ञानादिवृद्धिजनक मालम्बनं नान्यदिति गाथार्थः ॥ २३३ ॥
ननु कुत रोगाद्यापदपगमेऽपि ज्ञानादिवृद्धिजनकमालम्बनमन्वेषणीयं ? इत्याह-सालवणो पडतो, अप्पाणं दुग्गमे वि धारेइ । इय सालंबणसेवा, धारेइ जई असदभावं ॥ २३४ ॥
1