________________
व्याख्या--द्रव्यशब्दोऽत्र गुणवचनः कारणपर्यायो वा, मतश्च व्यस्पो गौणनामापयो भावनयकारणभूतो वा स्तवत्यविधापनपूजाकरणादिना गुणवदभ्यर्चनं द्रव्यस्तवः । मावतः-परमार्थतः स्तवः-सद्गुणोत्कीर्तनान्तरङ्गप्रीत्याऽज्ञापालनादिना | पूज्यपूजनं भावस्तवः । च शब्दो द्रव्यभावस्तरयोः स्वस्वाधिकारिविधेयत्वे नैयत्यख्यापनपरी । अनयोश्वान्योन्यापेक्षया द्रव्यस्तो [ बहुगुणः, स्वपरयोः शुभाध्यवसायस्यैव हेतुल्यातीर्थोन्नतिनिमिसत्वाचेति कस्यचिबुद्धिः स्यात्तदयुक्त, यतोऽनिपुणमतियचनमिदं द्रव्यस्तक्महुगुणत्वरूपं । कुतः १ इत्याह-यतः पणा जीवानां पृथिव्यादीनां यत्किमपि हितं तदेव जिना ब्रुवते, प्रधान मुक्तिकारण| मिति गम्यते, किं पुनस्तद्धितम् ? इत्याह-पड्जीवनिकायविषय:-'पुढविदगअगणिमारुय-वणस्सइचितिचउपणिदिअजीये।
पेहुप्पेहपमजण-परिठवणमणोवईकाए ॥१॥" इत्येवलक्षणः संयमोऽपमेव हितस्तहि द्रव्यस्तवेऽप्येष भविष्यति । इत्याह-- | द्रव्यस्तवे क्रियमाणे स संयमः पुष्पसङ्घनाघारम्भतः कृत्स्नः-परिपूर्णो विरुद्धयते, ततः कृत्स्नसंयमप्रधाना विद्वांसः साधवः पुष्याचारम्भसाध्यं द्रव्यस्तवं नेच्छन्तीति गाथाद्वयायः॥ २२९-३० ।।
यद्येवं तर्हि न केनाप्यसो द्रव्यस्तयो विधेय इस्याशक्याहअकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे, दुव्बत्थए कूवादिटुंतो ॥२३१॥
व्याख्या--अकृत्स्नमसम्पूर्ण संयम देशविरतिरूपं प्रवर्तयन्तीत्यकृत्स्नप्रवर्तकाः श्रावकारलेषां विरताविरतानां, खलु एवार्थे, तत एव द्रव्यस्तवो युक्त एव, कुतः ? इत्याह-यतोऽयं संसारप्रतानवहेतुः । ननु प्रकृत्यैव य आरम्मरूपः स श्रावकाणामपि | कथं युक्त इत्याशझ्याह-तस्मिंश्च द्रव्यस्तवे कर्तव्ये कूपदृष्टान्तोऽर्हद्भिरुक्तः, यथा हि तृष्णावापादिवाधितस्वदपगमनिमित्तं कृपख