________________
- मपदं प्राप्तः, ताभ्यां कृतप्रणामस्य पितुहर्षाभयनयोनील्यपगता । ततः प्रसनचन्द्र कुशलं पृच्छति पितरि वल्कलचौरी कौतुकात्स्वFoll स्थापितानि वल्कलान्युनमुद्रय प्रमार्जयन् पूर्वमन्या काचन्मया वस्त्रश्रमाजना कृतति चिन्तयन सजातजातिस्मृतिः कृतपूर्वा जिनदीक्षा | वैमानिकामरत्वं चानुभूतवान् । ततः संवेगमुपगतस्य भावतः परिणता दीक्षा, कृता क्षषश्रेणिः, केवलज्ञानं चोत्पन्न । अथ तद्देशनया वैराग्यं प्राप्तः प्रसन्नचन्द्रो गृहं गतः । वल्कलचीर्यपि पितरं श्रीवीरजिनान्तिकं नीत्वा दीक्षा ग्राहयित्वा सिद्धः । अन्यदा पोतनपुरे श्रीवीरे प्राप्ते देशनां श्रुत्वा संवेगमागतः प्रसनचन्द्रः पुत्र बालमपि राज्ये संस्थाप्य प्रवन्य उग्रं तपः कुर्वन् गीतार्थः श्रीवीरजिनेन समं राजगृह प्राप्तः । तत्र च___ “एगचलणप्पाटो, सूराभिमुहो समूसियभुयग्गो। चिट्टइ काउस्सग्गे, आसन्न समवसरणस्स ॥१॥" ''- अर्थ भगद्वन्दनार्थमागच्छतः श्रेणिकनृपतेः सेनामुखस्थेन सुमुखाभिधेनोक्तं-धन्योऽयं मुनिर्यस्येदृशं ध्यान, अनेन मोक्षः स्वर्गौ वा करस्थः कृतः । ततोऽन्येन दुर्मुखनाम्ना प्रोक्तं-'मैवं बादीः, यतः प्रसन्नचन्द्रोऽयं, येन बालोऽपि पुत्रः परित्यक्तः, इदानी चतरसुतोऽनाथो नगररोध विधाय दधिवाहनप्रभृतिभिर्भपैमन्त्रिभिश्च राज्यभ्रष्टः क्रियते, तदसावप्रेक्षणीयः । इति अत्वा राजर्षिः कोषपरवशः प्रत्यक्षानिक रिपुप्रभृतीन वीक्ष्यमाणो 'रे कृतप्रशेखरा मन्त्रिणो ! यूयं तथा सम्मानिता लालिता अपीदानीमिति विपरीतास्ताह युष्मान् शिक्षयामि, रे नृपाधमा ! इदानीं भवन्तोऽपि सज्जीभवन्त्विति भणिया योढुं लमः । ततः सुभटकरदितुरंगसम्मद निजमनसि कूर्वतस्तस्य बाधतः सद्धधानसभिवे दृष्ट्वा हृष्टः श्रेणिको भक्त्या चरणयोर्निपतितस्तद्गुणनिकरं स्तौति । रौद्रध्यानगतेन च तैनासो न ज्ञातः, ततोऽधिकतर तुष्टेन राज्ञा भगवत्समीपं गत्वा पृष्ट-भगवन् ! मया यदा प्रणतः प्रसन्नचन्द्रस्तदैव
।