________________
|
mawe
जो दुट्टगयंदो इव, देहो असमंजसेसु वहतो। नाणकुसेण रुंभइ, सो भन्नइ कायगुत्तो ति ॥ १९८ ॥
व्याख्या-अत्र प्राकृतत्वाद्विभक्तिव्यत्ययस्ततो यो दुष्टगजेन्द्रमिव देहमसमञ्जसे-वागमविरुद्धेषु वर्तमानं ज्ञानाङ्कुशेन । रुणद्धि, स कायगुप्त इति भण्यत इति गाथार्थः ।। १९८ ॥ दृष्टान्तद्वारोपदेशमाह-- | कुम्मुव सयांगे, अगोगाइं गोविउं धीरा चिट्ठति दयाहउं, जह मग्गपवनओ साहू ॥१९९ ॥ ___ व्याख्या-कूर्म इव सदाऽले अङ्गोपाङ्गानि गोपयित्वा धीरास्तिष्ठन्ति दयाऽर्थ, यथा मार्ग प्रपन्नः साधुरित्यक्षरार्थः ।।१९९।।
भावार्थस्तु कथानकमोच्यते-कश्चित्ताधुः सायन सभं प्रस्थितः, सार्थः कापि हरितभूमौ स्थितस्तत्र भूमौ सर्वत्र हरित| स्वात्साधुः स्वयोग्यां भूमिमलभमानः कृच्छ्रेनेकपादस्थापनयोग्य स्थण्डिले प्राप्य रात्री तत्रेकपादेन स्थितो ध्यानसंलीनः, शक्रेणावधिना दृष्टो, भक्त्या वन्दितः, कायगुप्त्या सभामध्ये प्रशंसितश्च । ततः कश्चित्सुरो व्याघ्ररूपेणाचालयत्त, पर साधु चलचिजध्यानात, फालाहतोऽपि तिलतुषमात्रमप्यशुद्ध स्थण्डिल न परिभुक्तवान , ततस्तद्गुणरक्षितः सुरस्तं मुनि नत्वा क्षामयित्वा हृष्टः स्वर्गमगात् । साधुरप्यगर्वितो मोक्षमगात् । इत्यन्येनापि कायगुप्तिः कार्या, इति. कायगुप्तसाधुकथानकं समाप्तम् ॥
तदेवं समर्थिताः समितयो गुप्तपश्च, आसा परस्परं चप विशेषः-गमनभापणाहारग्रहणादाननिक्षेपपरिष्ठापनारूपचेष्टाकाल एवं समितीनां व्यापारो, गुप्तीनां तु गमनादिरहितकायोत्सर्गाद्यवस्थायामचेष्टाकालेऽपि च व्यापारः । यत उक्त"समिओ नियमा गुत्तो, गुत्तो समियत्तणम्मि भइयग्यो । कुसलवइमुईरंतो, जं वइगुत्तो वि समिओ वि ॥१॥ इति ।।
- अथ व्रतकलितोऽपि समितिगुप्त्युपतोऽपि च सूत्रार्थपौरुषीक्रमेण तदुपकारार्थमेव सूत्रं पठेदित्याह