________________
तस्यां चक्षुर्विषयत्वादिभ्यः पुष्टालम्बनं विना गमनं निषिद्धमिति भावः । मार्गस्तु साधुगमनविषयत्वेनोत्पथविमुक्तो द्रष्टव्यः, उत्पथगमने आत्मविराधनादिदोषप्रसङ्गात् । यतनां पुर्नद्रव्यादिविषया चतुर्विधा 'इणमो'ति इयं वक्ष्यमाणेति गाथार्थः ।। १७२ ।। तदेव चातुर्विध्यमाह
जुगमित्तनिहियदिट्ठी, खेत्ते दव्वम्मि चक्खुणा पेहे। कालम्मि जाव हिंडइ, भावे तिविहेण उवउत्तो ॥१७३॥
व्याख्या - यदा युगमात्रक्षेत्रन्यस्तदृष्टिः पर्यटति तदा क्षेत्रे क्षेत्रविषया यतना कृता भवति, अत्यासस्य दृष्टस्यापि कस्यचि - ज्जीवादे रक्षितुमशक्यत्वात् युगमात्रात्परतस्तु सूक्ष्मजीवादेष्टुमशक्यत्वामाग्रहणं । द्रव्ये द्रव्यमाश्रित्येयं यतना, यथा चक्षुषा प्रेक्षेत, जीवादिद्रव्यमिति गम्यते । कालतस्तु यावद् हिण्डते तावत्कालमानं सर्वामपि द्रव्यादियतनां करोति । यत्तु त्रिवि - धेन मनसा वाचा कायेन चोपयुक्तः पर्यटति सा भावतो यतना । इह च गाथाबन्धानुरोधात् द्रव्यपतनामुत्सृज्य क्षेत्रयतनायाः प्रथमसुपन्यासः कृत इति गाथार्थः ।। १७३ || उपयुक्तत्वमेव व्यक्तीकुर्व आह
हो करतो, हसिरो सद्दाइएस रज्जंतो । सज्झायं चिंतंतो, रीएज्ज न चक्कवालेणं ॥ १७४ ॥ व्याख्या- ऊर्ध्वमुखः, कथासु- वार्त्तासु रक्तो, हसन, शब्दादिषु रज्यन-रागं कुर्वन, स्वाध्यायं चिन्तयन, तथा चक्रवालंवार्ताकथनाद्यर्थं कुण्डलकविरचनं, तेन च न रीयेत, किन्तु ज्येष्ठोsयतः शेषास्त्वनुज्येष्ठादिक्रमेणोपयुक्ताः पृष्ठतः इत्येवमेव