SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ पवयणमायाउ इमा, निद्दिट्ठा जिणवरेहिं समयम्मि। मायं एयासु जओ, जिणभणियं पवयणमसेसं ॥ १६८ व्याख्या - इमाः समितिगुप्तयो ( प्रवचनमातरः ) निर्दिष्टा जिनवरैस्तीर्थकरैः समये - सिद्धान्ते, कुतः १ इत्याह-यत एतासु समितिगुप्तिषु मार्त-निष्ठाङ्गतं जिनभणितं प्रवचनं द्वादशाङ्गमशेषं, तथाहि--इर्यासमितौ प्राणातिपात विरमणव्रतभवतरति, तद्वृत्तिकल्पानि च शेषवतान्यतोऽत्रैवान्तर्भवन्ति, तथा सावयवचन परिहारतो निरवद्यवचनभाषणात्मिकायां भाषासमितौ निरवद्यवचनपर्यायः सर्वोऽप्यन्तर्भवति न च तहिर्भूतं किमप्यपरं द्वादशाङ्गमस्तीति । एवमेषणासमित्यादिष्वपि भावनीयम् । इत्यर्थतः सर्वमपि प्रवचनमिह मातमुच्यत इति गाथार्थः ॥ १६८ ॥ अथैतासु प्रकारान्तरेण प्रवचनान्तर्भावमाह सुयसागरस्स सारो, चरणं चरणस्स सारमेयाओ। समिईगुत्तीण परं न किंचि अन्नं जओ चरणं ॥ १६९ ॥ 7 १ व्याख्या -- श्रुतसागरस्य सारः -- परमार्थश्वरणं चारित्रं, तदर्थमेव तत्प्रवृत्तेः । चरणस्यापि सारमेता एव कुतः ? इत्याह-समितिगुतिभ्यः परं न किञ्चिदन्यद्यतश्चरणमस्ति, अनुपयुक्तममनादिसावद्यविरतिरूपं हि चारित्रं, तच समितिगुप्तिभिरेव साध्यते, अतः स्थितमेतज्ज्ञानदर्शनाविनाभाविनि चारित्रे प्रवचनमवतरतीति चारित्रं समिति गुप्तिषु इत्येतासु प्रवचनं मातमुच्यत इति गाथार्थः ॥१६९ काः पुनस्ताः समितिगुप्तयः ? इत्याह इरियाभासाएसण - आयाणे तह परिद्वत्रणसमिई । मणवयणकायगुती, एयाओ जहक्कमं भणिमो ॥ १७० ॥
SR No.090390
Book TitlePushpamalaprakaranam
Original Sutra AuthorHemchandracharya
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy