________________
साधवे दीयमानं लक्षमूल्यं रवकम्बलं स्वमप्यानय । ततः स कामतृष्णया वर्षास्वपि तथाकरोत्। दत्तव रत्नकम्बलस्तस्याः करे, क्षिप्तथ तया तदैव क्षाले । ततः साधुराह - सत्यं मुग्धाऽसि यदेवं कष्टेनानीतोऽप्येतादृग्रनकम्बलो मलक्लिन्ने क्षाले क्षिप्यते । साऽप्याह-ज्ञातं ते वैदग्ध्यं यदनन्तभव भ्रमणदुर्लभं चारित्रचिन्तामणिरत्नं सर्वथाऽशुचिस्त्रीशरीरेषु क्षिपसीत्यादि । तद्वचनाञ्जातविवेकविकाशः साधुभणति साधु भणितं, मिथ्या मे दुष्कृतं स्यात् सर्वे । साऽपि साधुं क्षामयति । साधुरपि गुरुसकाशं गत्वा तं नत्वा स्वापराधं क्षामयति, श्रीस्लभद्रं प्रशंसति, प्रायश्वितं गृह्णाति । स्थूलभद्रस्वाम्यप्युपभद्रबाहुस्वा मियादमर्थतो दशपूर्वाणि, सूत्रतस्तु सर्वाणि पूर्वाण्यधीत्य प्राप्ताचार्यपदः स्वर्गङ्गतः । तदेवं परैरपि साधुभिर्दृडशीलै भव्यिमिति श्रीस्थूलभद्रकथानकं समाप्तम् । अथ परिग्रहव्रतपालनोपदेशमाह - as aहसि कवि अत्थं, निग्गंथं पत्रयणं पवण्णो वि । निग्गंधत्ते तो सा-सणस्स मइलत्तणं कुणसि ॥ १५९ ॥
व्याख्या --निर्ग्रन्थं प्रवचनं यतिधर्मलक्षणं प्रपन्नोऽपि यद्य वहसि ततो निर्ग्रन्थत्वे विषयभूते शासनस्य मालिन्यमेव करोषि । निग्रन्थत्वं मुनीनां वाङ्मात्रमिति लोका मणिष्यन्तीत्यर्थ इति माथार्थः ॥ १५९ ॥ [ ननु ] भवत्वेवं, को दोष: ? इत्याह--- तम्मलणा उ सत्थे, भणिया मूलं पुणब्भवलयाणं । निग्गंथो तो अत्थं, सव्वाणत्थं विवज्जेज्जा ॥ १६० ॥ व्याख्या -- तन्मलिनता पुनः क्रियमाणा पुनर्भवलतानां - पुनः पुनस्संमात्पलिनां मूलं कारणं भणितं शास्त्रे, तद्यथापावइ तित्थयरतं, जीवो जिणसासणं पभावतो । तं चैव य महतो, भमइ भवे भीसणदुहस्मि ॥ १ ॥ ततो निर्ग्रन्थः सर्वे अनर्था वधबन्धादयो यस्मात्तं सर्वानि वर्जयेदर्थमिति गाथार्थः ।। १६० ।।
6
५७