________________
| स्वगृहेऽधीत् । अमया बदुश्चरितभयेनात्मानमुखाध्य मृत्वा पाटलिपुत्रे व्यन्तरी जाता, पण्डिता तु पलाय्य पाटलिपुत्रेऽनुसमर्थ सुदर्शनरूपादीन वर्णयन्ती देवदत्तागणिकागृहे तिष्ठति । अत्रान्तरे गृहीतदीक्षं तत्रायातं भिक्षायै समेतं तं [सुदर्शन] देवदत्ताय उपालक्षयन , मा द्वारं पिघाय विविधवेश्याभावः सन्ध्यां यावदक्षुन्धं तं दृष्ट्वा पश्चात्तापेन प्रेतबनेऽमोचयन् । तत्र च कायोत्सर्गस्त सं दृष्ट्वा पूर्ववैरं स्मृत्याऽभयाच्यन्तरी सप्तदिनीमनुकूलप्रतिकूलोपसर्गस्तं व्यडम्बयत् । तदन्ते च शुक्लध्यानात्तस्य केवलज्ञानमुत्पन्न शक्रादिभिर्महिमा कृता । देशनां श्रुत्वाऽभयाव्यन्तरी पण्डिता देवदत्ताऽपरेऽपि च बहवः श्राद्धधर्म केचित्साधुधर्म च जगृहुः एवं भवानव्यानुद्धविरं बिहत्य मीसुदर्शनकिवानिशीले जीवनदृष्टान्तः समाप्तः । ___ अत्रैवोदाहरणान्तरमाहवंदामि चरणजुयलं,मुणिणो सिरिथूलभद्दसामिस्स।जो कसिणभुयंगीए,पडिओ विमुहे न निडुसिओ॥१५ | व्याख्या-श्रीस्थूलभद्रस्वामिनो मुनेश्वरणयुगलं वन्दे, यो भगवान् मदनोद्दीपनविषमविषेण संयमप्राणापहारकत्वात्कृष्णभुज | कोशागणिका, तस्या मुखे-गोचरे पतितोऽपि न निर्दष्टो-न तद्विषपविषेण व्याप्त इति गाथार्थः ।। १५८ ॥ | श्रीस्थूलभद्र कश्यानकं ह्यावश्यकादिषु प्रसिद्धमेव, स्थानाशून्यार्थ तु किश्चिदुच्यते-पाटलिपुत्रे नन्दराज्ञो मन्त्री शगडाल
स्थूलभद्र-सिरियाख्यौ तस्य पुत्रौ, सिरियाविवाहावसरे पूर्व विरोधितेन वररुचिपण्डितेनोद्भावितं कपट, ततो जातकोपे नन्दे वि | प्रयोगादिना शगडाले मृते द्वादशकोटीकनकव्ययेन द्वादशवर्षाणि कोषागृहे वेश्यावासे क्सन्तं विषयदृलेलितं स्थूलभद्रमानार