________________
चकमक
"धर्मात्मा पण्डितो ज्ञेयो, नास्तिको मूर्ख उच्यते । मर्वभूतहितस्साधु-रमाधुनिर्दयः स्मृतः ॥१॥" "वरमेकस्य सत्त्वस्य, प्रदत्ताऽभयदक्षिणा । न तु विप्रसहस्रेभ्यो, गोसहस्रमलकृतम् ॥ २॥" "सत्यं सत्यं पुनः सत्य-मुक्षिप्य भुजमुच्यते 'दाहिन नानादि सार्थ, परस्पा कुर्चतः ॥३॥"
इत्यादि, तद्विरुद्धथेत । न चाचार्यणाप्येवं व्याख्यातमिदं, किन्तु 'वप्तास्सन्तो न जायन्ते-न प्ररोहन्तीत्यजातिवार्षिका बीहयस्तै. यष्टव्य'मिति व्याख्यातं तैरिति । पर्वतस्त्वसम्बद्धवाक्यैनौरदमाशन 'अजैः-पशुभिर्यष्टव्यमित्येवोपाध्यायाख्यातं, अत्र च सहाध्यायी 5 वसुराजः प्रमाण, यद्यसौं त्वत्पक्षं गुरुसम्मतं मन्यते तदा सम्ला मे जिह्वा छिद्यते, अन्यथा तवे'ति प्रतिज्ञां चाकरोत् । नारदोऽपि । तदेव प्रमाणीकृत्य देवार्चादिनिमित्तं जगाम । ततो निशि निजमात्रा सहिन पर्वतो गत्वैकाकिने बमुराजाय तत्सर्वे छन्नमाख्यद्वसुरपि
यथा नारदः प्राह तथैव गुरुभिर्व्याख्यातत्वादयुक्तमुक्तं भवतेत्याह । ततश्वोपाध्यायभार्याऽऽग्रहात्पर्वतोक्तं समर्थनीयं मयेति राज्ञाSङ्कीकृते पर्वतो माता च तस्मा आशीर्वादं दत्वा स्वगृहं गतौ । प्रातः समागते पर्वते नारदे च मिलिते सबालवृद्धपुरजने कौतुकाविष
भवन[पतिज्यन्तरादिदेववर्गपाशीर्वादपूर्व पर्वतनारदाभ्यामुक्त स्वस्वपक्षे-- PL “घडमाईचं दिव्वं, लोए वि हु फुरह सच्चवाईणं । तो मोत्तुणं सच्चं, पसंसिमो? किमिह लोअमिम ॥१॥" । 5 तदनयोः पक्षयोर्यत्सत्यं तत्प्रसद्य निवेद्यतामिति ब्राह्मणवृद्धरभिहितेऽप्यविवेकतिमिरतरलिततत्वदृष्टिना राज्ञा व्यलीकोऽपि
पर्वतपक्षः सहसैव समर्थितः । तदैव च कुद्धया कुलदेवतया दत्वा पाणिप्रहारं पातितः सिंहासनानरपतिः क्षिप्तश्च पातालं। ततश्च आ! किमिदमिति भीतो लोका, प्रवृत्तः पर्वतकभूपयोस्सर्वत्र धिक्कारः, समुच्छलितो नारदस्य तु साधुकारः, विडम्ब्य निर्वासितो नगरा