________________
वसुनरवइणो अयर्स, सोऊण असचवाइणो किलिं । सच्चेण नारयस्स वि. को नाम रमिज ? अलियम्मि ॥ १५०॥
व्याख्या नरपतेयादन[अ] कीर्तिमतिशयेन श्रुत्वा अपिशब्दस्य व्यवहितस्य सम्बन्धात्, तथा नारदस्य सत्येन कीर्त्तिमपि श्रुत्वा को नाम रमेतालीके ?, न कोऽपीत्यर्थः । भावार्थः कथानकेनोच्यते -
चेदिविषये शुक्तिमतीपुर्यामभिचन्द्रे राज्ञि क्षीरकदम्बोपाध्यायान्तिके पुत्रपर्वतक- राजपुत्र सुनारदा वेदान् पठन्ति । अन्यदाऽऽकाशे गच्छतो मुनेर्मुखाद्वयोर्नरकगमनमेकस्य स्वर्गगमनं श्रुत्वोपाध्यायो विषण्णः परीक्षार्थं लाक्षारसभृतं कुकुटं पृथक् पृथक् प्रदत्वो| क्तास्ते 'यत्र न कविजानातीक्षते वा तत्रायं हन्तव्य' इति । बचो यसुपर्वतौ कचिच्छून्यगृहे तो हत्वाऽऽयातौ नारदस्त्वहतकुकुटविरं समागतो गुरुं नत्वोवाच- नास्त्येव स प्रदेशो यत्र न कश्विजानाति पश्यति वा, यतो यावत्सन्ति सर्वज्ञा अपि । ततस्तदितरयोर्नरकं निश्चित्य वैराग्याद्गुरुः प्रावाजीद् । पर्वतस्तस्थाने शिष्यानध्यायवति नारदः स्वस्थानं गतः, पितरि प्रबजिते व राज्यं शास्ति । इतश्व मृगाय मुक्ते बाणे स्खलिते सार्यकरस्पर्शादाकाशनिर्विशेषां स्फटिकरत्नशिलां नृपोचितां विज्ञाय चसुनृपायाख्यव्याधः, वसुश्च तामानाय्य प्रद्धको सिंहासनं तयाऽचीकर, शिल्पिनच जघान । आस्थाने च तस्मिन्भासने स्वयं निविष्टः, न चासनासने कोऽपि गन्तुं लभते । ततः सत्यादिगुणैर्वसुर्वसुमतीश व्योम्नि तिष्ठतीति प्रोच्छलितः प्रवादः । अन्यदा नारदो गुरौ गौरवाद्गुरुतमालोकयितुमायातः । अत्रान्तरे "अजैर्यष्टव्यमिति ऋग्वेदपदं नारदसमर्थ शिष्येभ्यः पर्वतो व्याख्यानयति, यथा--'अजा ' पशवस्तैर्यथ्यमिति । एतच्चाकर्ण्य कर्णौ पिधाय ऋषिणोक्तं-आः !! शान्तं पापमिति, यतो हन्त यदि पशुभिर्वज्ञो भवेत्तदा व्यासेन [पण्डितादिपुरुष] चतुष्टयलक्षणं कुर्वता यदुक्तं